Enter your Email Address to subscribe to our newsletters

श्रीनगरम्, 5 दिसंबरमासः (हि.स.)। मुख्यमन्त्रिणा उमर-अब्दुल्ला-नाम्ना अद्य शेर-ए-कश्मीर-अन्ताराष्ट्रिय-परिषद्-कक्षे (एस्केआइसीसी) आस्थिते शेर-ए-कश्मीर चिकित्साशास्त्र-संस्थानस्य (एस्केआइएम्स्) त्रयोदशाधिकचत्वारिंशत्-स्थापनादिवस-समारोहे अध्यक्षता कृताऽभूत्। तेन सर्वकारस्य स्वास्थ्यसेवा-मूलभूत-संरचनाया विस्तारार्थं तृतीयक-चिकित्सा-सेवायाश्च सुदृढीकरणाय दृढप्रतिज्ञता अपि पुनरुच्य समाश्वसितम्। स्व-उद्बोधने मुख्यमन्त्राऽवदत्— “अस्माकं सर्वकारेण स्कीम्-नाम- संस्थानं सदा वित्तीय-सहाय्येन पूर्णतया संवर्धितम्। अग्रेऽपि वयम् एतत् ततः अधिकेन उत्साहेन करिष्यामः।”
तेन उद्घोषितम् यत् नवीन एस्एएस्सिआइ (SASCI) वित्त-पद्धतिः, या पूर्वं केवलं राज्यभ्यः उपलब्धा आसीत्, अद्य तस्य स्वीय-प्रयत्नेन केंद्रशासित-प्रदेशानामपि कृते विस्तारिताऽस्ति। अस्य फलस्वरूपम् दीर्घकालिक-निर्व्याज-पूँजी-व्यय-ऋणप्राप्तेः अवसरः जम्मू-कश्मीर-प्रदेशाय अभूतपूर्वरूपेण उपलब्धः।मुख्यमन्त्राऽवदत्— “अद्य अस्मभ्यं अन्ततः एस्एएस्सिआइ प्राप्तम्। अस्य तन्त्रस्य अन्तर्गते वयं पूँजी-निवेशार्थं निधिं प्राप्नुयाम। एषः अस्माकं कृते अद्वितीयः अवसरः। स्कीम्-संस्थानम् अस्य सर्वं फलम् उपयुञ्जीत।तेन स्कीम्-प्रशासनं प्रति आवाहनं कृतम् यत् वर्ष-द्वय-त्रय-अन्तर्गतम् एकं महत्-परियोजनां सम्यक् चिन्तयन्तु।
मुख्यमन्त्राणाऽपि शेर-ए-कश्मीर-शेख-महम्मद-अब्दुल्ला-महात्मनः शाश्वत-धरोहरं विस्तरेण स्मारितं, च तस्य कालखण्डे स्कीम्-संस्थानस्य स्थापना दूरदर्शिता-पूर्णं कार्यमिति निर्दिष्टम्— “अद्यापि मम बुद्धौ न सुलभं भवति यत् कियद्-विपुलं संस्थानं तेन काले कथमिव निर्मापितम्।” तेन उक्तम्— “अद्य यद्येह कश्चित् पृच्छेत्— किम् जम्मूकश्मीरसर्वकारः स्कीम्-तुल्यं चिकित्सालयं वा एस्केआइसीसी-तुल्यं प्रासादं निर्मातुं समर्थः?— तर्हि मम उत्तरं भविष्यति—‘अत्र कार्ये प्रायः असम्भवता अस्ति।’”
अस्य संस्थानस्य उन्नत-चिकित्सासेवायां प्रमुखता, चिकित्सक-नर्स-पैरामेडिकल-कर्मिणां प्रशंसनीय-समर्पणं च तेन सविशेषं प्रंस्तुतम्।एआइआइएम्एस्-निदेशकस्य डॉ॰ श्रीनिवास-नाम्नः वचांसि निर्दिश्य ते जगादुः— “स्कीम्-स्थापनाया उद्देश्यः आसीत् यत् जम्मू-कश्मीरस्य रोगिणः बहिर्देशं प्रति गमनं विना सर्वोत्कृष्ट-उपचारं प्राप्नुयुः। अद्यापि एषः उद्देश्यः सम्यक् साध्यते।”
तेन रोगिभारस्य प्रबलतां सूच्य, जिला-उपजिला-स्तरयोः स्वास्थ्य-सुविधा-सुदृढीकरणम् सर्वकारस्य कर्तव्यं इति निर्दिष्टम्—“जनाः नियमित-चिकित्सार्थं स्कीम्-संस्थानं प्रति आगन्तुं बाध्याः न स्युः। यदा स्थानिक-चिकित्सालयाः यथोचित-सेवां दातुं न शक्नुवन्ति, तदा एतादृशः भारः उत्पद्यते। वयम् उभयदिशाभ्याम् कर्म करिष्यामः— स्कीम् संस्थानं नूतनसुविधाभिः सुदृढीकरिष्यामः, जिला-उपजिला-चिकित्सालयांश्च उन्नीय भारम् न्यूनं करिष्यामः।”
मुख्यमन्त्रिणा निर्देशक-डॉ॰ एम्. अशरफ्-गनी तथा समग्र-स्कीम्-समूहे प्रशंसिताः—“कष्टानां मध्येऽपि अध्ययनम्, चिकित्सायाः स्तरः, संस्थानस्य प्रगतेः प्रशंसनीयम्। मम अभिलाषा यत् संस्थानम् अधिकतरं प्रगच्छेत्, विश्वस्तरीय-चिकित्सा-सेवां च जनपदाय प्रदद्यात्।”
स्थापनादिवसस्य प्रसंगे शैक्षणिक-सत्रम्, वरिष्ठ-अध्यापकानां व्याख्यानानि, स्कीम्-संस्थानस्य उत्तरीभारतस्य श्रेष्ठ-तृतीयक-चिकित्सा-गवेषणा-शिक्षण-केंद्र-भूषणत्वम् च विवेचितम्।अवसरे मुख्यमन्त्रिणा स्कीम्-वार्षिक-प्रतिवेदनं प्रकाशितम्। अन्यैः मन्त्रिभिः युआपीएस्सी-सीएम्एस्-पुस्तकम् तथा हिस्टोलोजी-एस्सेन्शियल्स् नाम द्वे प्रकाशने उद्घाटिते।
समारोहः स्वास्थ्य-चिकित्सा-शिक्षा-मन्त्रिणी सकीना-मसूद-इटू; ग्राम्य-विकास-पंचायती-राज-मन्त्री जाविद्-अहमद्-डार; मुख्यमन्त्रिणः नासिर्-असलम्-वानी; एआइआइएम्एस्-निदेशकः डॉ॰ श्रीनिवास (आभासी-उपस्थितिः); शेर-ए-कश्मीर-वक्ता डॉ॰ माधवानन्द-कर; स्कीम्-निदेशकः डॉ॰ एम्. अशरफ्-गनी; मेडिकल-संकाय-डीन; MCH–बेमिना-प्रिन्सिपाल् डॉ॰ फजलुल्-क्यू.-पर्रे; आयोजनाध्यक्षः डॉ॰ (प्रो.) मुजफ्फर्-मकसूद्; वरिष्ठ-अध्यापकाः, अन्वेषकाः, चिकित्सकाः, छात्राः, बहुसंख्य-स्वास्थ्य-कर्मिणश्च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता