Enter your Email Address to subscribe to our newsletters

- विद्यालये शुभारब्धा द्विदिवसीया बाल योग संस्कारशाला
मीरजापुरम्, 5 दिसंबरमासः (हि.स.)।
मीरजापुरनगरस्य डङ्घरप्रदेशस्थिते अमरग्लोबलविद्यालये द्विदिनीयं निःशुल्कं बालयोगसंस्कारशाला नाम कार्यक्रमः शुक्रवासरे वैदिकमन्त्रॊच्चारणेन आरब्धः। योगगुरुः राष्ट्र्रीययोगासनन्यायाध्यक्षश्च योगी ज्वालासिंह वैदिकमन्त्रॊच्चारणस्य मध्ये योगशिबिरस्य शुभारम्भं कृतवान्।
प्रथमदिने योगगुरुणा बालकेभ्यः हस्तैः क्रियमानानां सूक्ष्मव्यायामानां अभ्यासः करितः। तेनोक्तं यत् एतेषां नित्याभ्यासेन अङ्गुलीनां मन्यूनां कुर्वणां कोहनीकन्धयोः च समस्याः सर्वाइकलस्पॉन्डिलाइटिस इत्यादयः अपि प्रशमं यान्ति। अनन्तरं बालकेभ्यः सुखासनं सिद्धासनं वज्रासनं मण्डूकासनं वक्रासनं चान्येभ्यः विविधासनेभ्यः अभ्यासः प्रदत्तः। भस्त्रिका कपालभाति अनुलोमविलोमप्राणायामानां च लाभाः विस्तरेण विवृणोति स्म।
निदेशकः अवनीशउपाध्यायः आयोजनस्य विवरणं दत्तवान्। संस्कारशालायां योगशिक्षकः प्रवीणकुमारमौर्य रिंकीपाण्डेयः प्रियांकाश्रीवास्तवः सतबिन्दरकौर गजालाशेषा मुस्कान सुषुमदुबेः खुश्बूअंसारी अमृताश्रीवास्तवः साक्षीजायसवाल एकतागुप्ता च चन्दनबोश सतेशदेवपाण्डेयः संजয়तिवारी इत्यादयः अपि बालकैः सह योगाभ्यासे सहभागिनोऽभवन्।
---------------
हिन्दुस्थान समाचार