Enter your Email Address to subscribe to our newsletters


मध्यप्रदेशोऽददात् देशाय नूतना दिङ्, सरकारीनियुक्तिरधुना पूर्णतया ऑनलाइन अथ पारदर्शी चेतिभोपालम्, 05 दिसंबरमासः (हि.स.)। देशे प्रथमवारम् ऑनलाइन पारदर्शी नियुक्तिप्रक्रियाया इतिहासो मध्यप्रदेशेन निर्मितः। प्रदेशे सुशासनस्य पारदर्शितायाश्च एतादृशम् उदाहरणं समुपस्थितम् येन न केवलं राज्यं नूतनदिशां प्रति नीतं अपि तु सर्वदेशस्य ध्यानं आकर्षितम्।मध्यप्रदेशे प्रथमवारं सरकारीनियुक्तयः पूर्णतया ऑनलाइन पारदर्शीपद्धत्या विनियोजिताः अस्य ऐतिहासिकस्य प्रयासस्य केन्द्रभूतं जातं मध्यप्रदेशविधानसभायाः सभागृहम्। अत्रैव मुख्यमन्त्री डॉ मोहनयादवेन नवचयनिताभ्यः आंगनवाडीकार्यकर्त्रीभ्यः सहायिकाभ्यश्च नियुक्तिपत्राणि दत्तानि तथा नूतना परम्परा आरब्धा।
कार्यक्रमे मुख्यमन्त्रिणा उक्तं यत् प्रशासनस्य अधमस्तरे ग्रामस्तरे कार्यरताभ्यः भगिनिभ्यः सर्वोच्चलोकतान्त्रिकमञ्चात् विधानसभा इत्यस्मात् नियुक्तिपत्रप्रदानं अद्वितीयं प्रेरकं च क्षणम् अस्ति। तेन एतत् इतिहासनिर्माणस्य अवसरः इति कथितम्। तेन सर्वभ्यः चयनिताभ्यः कार्यकर्त्रीभ्यः आग्रहः कृतः यत् सर्वे कुपोषणविरुद्धं संयुक्तं प्रयत्नं कुर्वन्तु यशोदा मय्याः सदृशं सर्वबालकेभ्यः शिक्षा संस्कार सुरक्षा च ददतु।
नवचयनिताः कार्यकर्त्रीयः सहायिकाश्च विधानसभाया कार्यवाहीम् अपि प्रत्यक्षतया अवलोकयन् यत् तासां कृते नूतनानुभवः अभवत्।
अस्मिन् अवसरि विधानसभा अध्यक्षः नरेन्द्रसिंहतॊमरः सर्वान् नियुक्तान् प्रतिभागिनः अभिनन्द्य ऑनलाइन पारदर्शीप्रक्रियायाः प्रशंसां कृत्वा अवदत् यत् एषा प्रक्रिया प्रदेशसरकारस्य सुशासनप्रतिबद्धतायाः प्रमाणम्।
मन्त्री निर्मलाभूरिया पूर्वमन्त्री अर्चनाचिटनिस अपरमुख्यसचिवः नीरजमण्डलोई प्रमुखसचिवा जीवीरश्मिश्च कार्यक्रमे उपस्थिताः। पूर्वमन्त्रिणा अर्चनाचिटनिसा सर्वाभ्यः नवचयनिताभ्यः कार्यकर्त्रीभ्यः सहायिकाभ्यश्च कर्तव्यनिष्ठायाः शपथा दत्ताः।
मन्त्रिणा निर्मलाभूरिया उक्तं यत् अस्याः पारदर्शीचयनप्रक्रियायाः फलतः अधुना मेधावीजन एव मुख्याधारः जातः। राज्यस्य सर्वत्र आंगनवाडीकार्यकर्त्रीणां सहायिकानां च १९२५० पदानां कृते प्रायेण चत्वारि लाखानि आवेदनपत्राणि प्राप्तानि। तेषु १२०७५ पदानां नियुक्तिप्रक्रिया पूर्णता प्राप्ता नियुक्तिपत्राणि च प्रदत्तानि। विशेषं तु एतत् यत् देशे प्रथमवारं एतादृश्या विशालसंख्यायां सरकारीनियुक्तयः ऑनलाइन माध्यमेन कृताः यत्र कागदपत्रगुम्फनस्य नष्टत्वस्य वा आशङ्का पूर्णतया निवारिता। दावा आपत्ति अपील इत्यादीनां व्यवस्थां समावेश्य प्रक्रिया न्यायसंगततरां विश्वसनीयतरां च कृतम्।
मन्त्रिण्या उक्तं यत् डिजिटलपद्धतेः कारणात् चयनं शतप्रतिशतं मेधावितायै एव आधारितम् अभवत्। नियुक्तिपश्चात् अस्याः कार्यकर्त्रीणां सहायिकानां च प्रतिमासं चतुर्दशकोटीरूप्यकपरिमाणं मानदेयं दास्यते येन तासां आर्थिकसुदृढीकरणस्य मार्गः प्रशस्तो भविष्यति।
कार्यक्रमसमाप्तौ चयनिताः कार्यकर्त्रीयः मुख्यमन्त्रिणम् अभिनन्द्य प्रदेशे एतां पारदर्शीप्रक्रियाम् आरब्धुं सर्वकारं प्रति कृतज्ञतां प्राकटयन्।
उल्लेखनीयम् यत् मध्यप्रदेशसर्वकारस्य एषा नूतना योजना सुशासनस्य डिजिटलपारदर्शितायाश्च क्षेत्रे मध्यप्रदेशाय नूतनां ख्यातिं दातुं समर्था भविष्यति।
---------------
हिन्दुस्थान समाचार