Enter your Email Address to subscribe to our newsletters

चमोली, 5 दिसंबरमामः (हि.स.)। उत्तराखण्डराज्ये चतुर्धामयात्राया: समापनानन्तरं अधुना चतुर्धामानां शीतकालीनगद्दीस्थलेषु पूजाऽर्चनादयः आरब्धाः। एतेषां स्थलेषु अपि शीतकाले श्रद्धालवः पर्यटकाश्च नन्दादेवीसिद्धपीठं कुरुड्, संतानदायिनी माता अनसूयामन्दिरम्, नीतीघाट्यां स्थितं बाबा-बर्फानीगुफां, विश्वप्रसिद्धं हिमक्रीडास्थलम् औली, गोपीनाथमन्दिरम्, एस्ट्रो-विलेज् बेनीतालम्, ज्योर्तिमठं चमोलीजनपदं च गत्वा दर्शनं कर्तुं शक्नुवन्ति।
प्रधानमन्त्रीमोदिविजनेन संगतं मुख्यपोषकस्य पुष्करसिंध्धामीयस्यानुशासनात् शीतकालीनयात्रायाः व्यवस्थाः सुस्थिताः क्रियमाणाः सन्ति। राज्यस्य सर्वेषु जनपदेषु वर्षभरं दर्शनेभ्यः मुक्तानि बहूनि देवालयानि सन्ति। बैरासकुण्ड्, वृद्धबदरी, कल्पेश्वरः, ब्रह्मतालः, भेकलतालः, उर्गमघाटी, निजमुलाघाटी, देवतालः, बेनीतालः, रूपकुण्डः, लोहाजङ्गः, लार्ड्कर्जनमार्गः, बामनाथमन्दिरम्, मोहनखाल्, ग्वालदम्, वाण्-लाटूमन्दिरम्, बधान्गढी इत्यादीनि सैरसपाट्यर्थं दर्शनीयानि स्थालानि सन्ति।
जनपदचमोलीस्य मुख्यतीर्थपर्यटनस्थलानि
माता नन्दादेवी सिद्धपीठं कुरुड्बद्रीनाथमहामार्गे ऋषिकेशात् १९० किमी दूरे स्थिते नन्दप्रयागात् २५ किमी नन्दानगरमार्गे गत्वा कुरुड्ग्रामे उत्तराखण्डस्य अधिष्ठात्रीदेव्याः नन्दामन्दिरस्य दर्शनम्। अत्र माता नन्दा शिवपत्नी इव पूज्यते।
सन्तानदायिनी माता अनसूयामन्दिरम्चमोली-ऊखीमठमार्गे गोपेश्वरात् ८ किमी मार्गं ५ किमी पदयात्रां च कृत्वा अनसूयामातामन्दिरम् आगन्तुं शक्यते। इदं मन्दिरं निर्जनकानने स्थितम्। प्रतिवर्ष दत्तात्रेयपर्व इति द्विदिनीयमेला अत्र आयोजितः भवति। निसन्तानदम्पत्यः सन्तानकामनया अत्र आगच्छन्ति।
गोपीनाथमन्दिरम्गोपेश्वरनगरमध्ये स्थितम् एतत् मन्दिरम् शिवाय समर्पितम्, गढ़वालक्षेत्रस्य अतिबृहत्तमं मन्दिरम्। एतत् रुद्रनाथस्य शीतकालीनवासस्थलं च। अत्र एकः विशालः त्रिशूलः विराजते, यं स्थानीयाः शिवस्य कामदेववधसमये निहितम् इति मन्यन्ते। अद्यापि तस्य धातुः न शोभनावस्थां त्यक्तः।
नीतीघाटी—बाबा बर्फानीगुफाचीनसीमायां स्थिता नीतीघाटी अत्र बर्फानीबाबाजी गुफायां शीतकाले दर्शनं ददाति। जौलीग्रान्टविमानतलम् समीपतमम्—तस्मात् टिम्मरसैंणमार्गे ३५४ किमी दूरे गुफा अस्ति। बद्रीनाथमार्गे जोशीमठं, ततो मलारीमार्गे नीतीग्रामं, तस्मात् २ किमी पदयात्रा—एवमेव गन्तव्यम्।
औली—विश्वप्रसिद्धं हिमक्रीडास्थलम्ज्योर्तिमठात् १२ किमी दूरं स्थितम्। अत्र विश्वस्तरीयस्कीइन्ग्-ढालाः, हिमक्रीडास्पर्धाः च आयोजनं प्राप्नुवन्ति। अप्रतिमं प्राकृतिकसौन्दर्यं च दृश्यते।
एस्ट्रो-विलेज् बेनीतालम्कर्णप्रयागात् ३५ किमी दूरे। गौचर-विमानतलम्, ऋषिकेश-रेलस्थानकं च समीपतमम्। अत्रशुद्धवातावरणे ग्रह-नक्षत्र-खगोलीयदृश्येषु अवलोकनम्, तस्मात् राज्येन एतत् एस्ट्रो-विलेज् इति विकसितम्।
कर्णप्रयागःऋषिकेशात् १७५ किमी बद्रीनाथमार्गे। अलकनन्दा-पिण्डरसङ्गमः, पंचप्रयागेषु प्रमुखः। अत्र कृष्ण-मन्दिरम्, कर्णमन्दिरम्, उमा-देवीमन्दिरम् च दर्शनार्थम् आगन्तव्यम्।
ज्योर्तिमठःऋषिकेशात् २६० किमी। अत्र हेमन्ते हिमदर्शनं शक्यते। नृसिंहमन्दिरम्, शंकराचार्यगद्दी, नवदुर्गामन्दिरम्, उत्तराम्नायमठः च दर्शनीयानि। समीपे आणिमठे वृद्धबदरीमन्दिरम् अस्ति।
आदिबदरीकर्णप्रयाग-नैनीतालमार्गे १९ किमी दूरे आदिबदरीमन्दिरसमूहः स्थितः। समीपे चाँदपुरगढी—गढ़वालनरेशस्य प्राचीनराजधानी, तथा राजराजेश्वरीमन्दिरम् अपि दर्शनीयम्।
हिन्दुस्थान समाचार