वार्तालापः - कला मदीयः आधारः, राजनीति दायित्वं च - मैथिली ठाकुरः
दरभंगा, 5 दिसंबरमासः (हि.स.)।बिहारराज्यस्य दरभंगा जनपदस्य अलीनगर विधानसभाक्षेत्रात् ऐतिहासिकविजयं प्राप्त्य नवनिर्वाचिता विधायकाः प्रसिद्धा लोकगायिका च मैथिली ठाकुर इत्येता क्षेत्रस्य विकासम् जनानाम् अपेक्षाः आगामी कार्ययोजना च विषये हिन्दुस्थानसमा
दरभंगा: मैथिली ठाकुर ( अलीनगर विधायक)


भाजपा विधायक और प्रसिद्ध लोकगायिका मैथिली ठाकुर विधानसभा सत के दौरान


दरभंगा, 5 दिसंबरमासः (हि.स.)।बिहारराज्यस्य दरभंगा जनपदस्य अलीनगर विधानसभाक्षेत्रात् ऐतिहासिकविजयं प्राप्त्य नवनिर्वाचिता विधायकाः प्रसिद्धा लोकगायिका च मैथिली ठाकुर इत्येता क्षेत्रस्य विकासम् जनानाम् अपेक्षाः आगामी कार्ययोजना च विषये हिन्दुस्थानसमाचारैः सह विस्तृतां चर्चां कृतवत्याः। तस्या ८४९१५ मतानि प्राप्तानि ११७३० मतानां निर्णायकभेदेन जयश्च प्राप्तः। अस्य फलतः न केवलं राजनीतिकपरिसरे उत्सुकता वर्धिता अपि तु अलीनगरजनानां मध्ये अपि नवाः आशाः उत्पन्नाः।

मैथिली ठाकुर अवदत् यत् तस्याः प्राथमिकता सीध्रं जमीनीविकासः युवा केन्द्रितनीतिः पारदर्शिता च। डेटा आधारितं मार्गचित्रं निर्माय षण्मासिकप्रगति प्रतिवेदनं दातुं तया घोषणा कृता यत् बिहारविधानसभायाः राजनौकायां नवप्रयत्नरूपेण मन्यते। अलीनगर मतदाता तस्याः योजनानां कार्यरूपगतीं प्रति उत्साहिताः सन्ति आशाभरिताश्च यतो हि प्रथमवारं क्षेत्रविकासस्य दिशि युवाशक्तिसमानं ऊर्जस्वलं नेतृत्वम् उदितम्।

प्रश्नः — भवत्याः विजयः युवा नेतृत्वस्य विजय इति मन्यते। भवान् कथं पश्यति।

मैथिली ठाकुरः — एषा विजयः केवलं मम न परम् अलीनगरस्य ते युवा ये परिवर्तनं चिकीर्षन्तः आसन् तेषां विजयः। संतोषः यत् जनाः पारम्परिकराजनीतेः भेदं कृत्वा विकासं पारदर्शितां संवेदनशीलनेतृत्वं च अग्रे न्यवेशयन्। अस्मिन् विश्वासे पूरणं कर्तुं अहं पूर्णशक्त्या प्रयासं करिष्यामि।

प्रश्नः — भवत्याः विकासस्य प्राथमिकसूची का।

मैथिली ठाकुरः — प्रथमं वयं मार्गम् स्वास्थ्यं शिक्षां च समन्वितं सुदृढं करिष्यामः। केन्द्रीयविद्यालयः डिग्रीकालेजः च अपि प्राथमिकसूचौ स्थास्यते। ग्रामीणसंपर्कमार्गस्य १०० अधिककिलोमिटरपर्यन्तं सुदृढीकरणलक्ष्यम्। प्राथमिकस्वास्थ्यकेन्द्रेषु नित्यं चोविंशतिघण्टपर्यन्तं एम्बुलेंससेवा विशेषज्ञचिकित्सकानां उपलब्धता च सुनिश्चितव्या। त्रिंशत् विद्यालयेषु डिजिटलप्रयोगशाला स्मार्टकक्षाः च स्थापनीयाः। षण्मासिकं प्रगति प्रतिवेदनं जनतायै प्रदास्यते।

प्रश्नः — अलीनगरस्य जलविद्युत् स्वास्थ्यस्य च समस्याः गम्भीराः। किम् उपायः।

मैथिली ठाकुरः — नलजलयोजना विद्युत्स्थैर्यं च विभागीयसमन्वयेन कठोरनिगरणया पर्यवेक्ष्यते। ग्रामेषु ट्रान्सफर्मर परिवर्तनं पाइपलाइन सुधारः पुराणानां मोटरयन्त्राणां मरम्मतिः च प्राथमिकसूचौ। स्वास्थ्यविभागे औषधउपलब्धता गर्भवतीनां सुविधायाः च त्वरितोन्नयनं भविष्यति।

प्रश्नः — स्वरोजगारस्थानीयअर्थव्यवस्थायै विशेषयोजना का।

मैथिली ठाकुरः — द्विवर्षाभ्यन्तरे न्यूनतमं द्विशतानि युवानः स्वरोजगारेन सम्बध्येरन् इति प्रयत्नः। हस्तशिल्पम् महिला स्वसहायकसमूहाः कृषिआधारितउद्यमाः स्थानीयपर्यटनं च। मिथिलाकला संगीतं संस्कृति च आत्मनिर्भर्याः मार्गेनेतुम् मम स्वप्नम्।

प्रश्नः — अलीनगरस्य नाम सीतानगर इति करणम् विषये किं दृष्टिः।

मैथिली ठाकुरः — एषः विषयः भावनात्मकसम्बन्धानां मध्ये अस्ति। मिथिलाक्षेत्रे अद्यापि जनानां मध्ये माता सीतायाः गाढा श्रद्धा वर्तते। परन्तु एतत् निर्णयं सर्वसमुदायानां पंचायतानां जनप्रतिनिधीनां प्रशासनस्य च समन्वयेन यदि जनता इच्छति तर्हि एव अग्रे नेष्यते। विकासेन सह माता सीतायाः नाम संयोज्य युवानः स्वस्य मूलानि प्रति अवलोकनं कर्तुं शक्नुवन्ति। भारतस्य परिचयं संस्कृतिः एव। अस्माकं संस्कृतौ माता सीता आदिशक्तिरूपेण पूज्यते।

प्रश्नः — विजयपश्चात् सोशलमाध्यमेषु केषुचित् क्षेत्रेषु भ्रान्तिविद्योद्भवः किञ्चित् विरोधः च श्रुतः। कथं पश्यसि।

मैथिली ठाकुरः — सोशलमाध्यमेषु संवादस्य साधनम् परन्तु मिथ्याविद्यानि वातावरणं दूषयितुं शक्नुवन्ति। सर्वान् प्रति मम आग्रहः यत् फर्जीविडियो उकसयन्ति ये संदेशाः तेषु न विश्वसन्तु। वयं शीघ्रं जनसंपर्क सत्यापनच कक्षं स्थापयिष्यामः येन कश्चन भ्रमः शीघ्रं निवर्तयिष्यते।

प्रश्नः — भवत्याः विजयायां महिलायुवानां च महत् योगदानम् आसीत्। किम् विशेषयोजना।

मैथिली ठाकुरः — अवश्यमेव। महिला कौशलप्रशिक्षणकेंद्राणि ग्रामीणस्त्रीस्वास्थ्यशिविराः मेधावी छात्रछात्रिणां सहायता कार्यक्रमा क्रीडासांस्कृतिकविकासः च। यस्य क्षेत्रस्य अर्धजनसंख्या सशक्तीकृता न भवति तस्य विकासः अपूर्णः।

प्रश्नः — भवती कला राजनीति उभयत्र अस्ति। कथं सन्तुलनम्।

मैथिली ठाकुरः — कला मम आधारः राजनीति मम कर्तव्यं। उभयं परस्परं बलं ददाति। संगीतं मां विनम्रतां धैर्यं संस्कृतिबोधं च अदात् यत् जनप्रतिनिधेः अपि आवश्यकम्। कार्यं प्राथमिकता तदनुसारमेव सर्वं भविष्यति।

---------------

हिन्दुस्थान समाचार