नेपालदेशे आमनिर्वाचनाय निर्वाचनायोगस्य सज्जता अन्तिमावस्था प्राप्ता।
काठमाण्डू, ०५ दिसम्बरमासः (हि.स.)। नेपालदेशे संवत्सरस्य अगामिनि वर्षे मार्चमासे विधानसभाया आमनिर्वाचनं भविष्यति, यस्मिन् अद्य केवलं नवति दिनानि अवशिष्टानि सन्ति। तेन सह निर्वाचनकार्यस्य प्रगति: शीघ्रतया अनुवर्तते। निर्वाचनायोगेन स्वीयाः क्रियाः त्
निर्वाचन आयोग


काठमाण्डू, ०५ दिसम्बरमासः (हि.स.)।

नेपालदेशे संवत्सरस्य अगामिनि वर्षे मार्चमासे विधानसभाया आमनिर्वाचनं भविष्यति, यस्मिन् अद्य केवलं नवति दिनानि अवशिष्टानि सन्ति। तेन सह निर्वाचनकार्यस्य प्रगति: शीघ्रतया अनुवर्तते। निर्वाचनायोगेन स्वीयाः क्रियाः त्वरितगत्या प्रवर्तिताः, यथा च राजनैतिकदलेषु अपि अन्तःकार्ययोजनाः सक्रियतया प्रचलन्ति।

आयोगस्य प्रवक्ता नारायणप्रसादभट्टरायिणा उक्तं यत्—

दिसम्बर् ६ तः समानुपातिकनिर्वाचनव्यवस्थाया: कार्यक्रमः आरप्स्यते।

नियतक्रमेण—

राजनैतिकदलेभ्यः दिसम्बर् ७ दिवसे प्रातः १० वादनात् सायं ४ वादनपर्यन्तं

समानुपातिकनिर्वाचनव्यवस्थासम्बद्धम् आवेदनपत्रं दातुं शक्यते।

आवेदनदात्रुदलानां नामावलिः दिसम्बर् १० दिवसे प्रकाशितीक्रियिष्यते।

दलैः स्वीयाः बन्दसूचयः दिसम्बर् २८–२९ दिने प्रातः १० वादनात् सायं ४ वादनपर्यन्तं समर्पयितुं शक्यन्ते।

समानुपातिकप्रतिनिधित्वस्य अन्तिमसूची फेब्रुवरी १३ दिनाङ्के प्रकाशिती भविष्यति।

प्रत्यक्षनिर्वाचनक्रमे—

अभ्यर्थीनां नामांकनं जनवरी २० दिनाङ्के भविष्यति, तथा च तस्यैव दिनाङ्के नामाङ्कितानां सूची प्रकाशितीक्रियिष्यते।

नामांकनविरुद्धाः परिवेदनाः जनवरी 21 दिनाङ्के दातुं शक्यन्ते।

प्रारम्भिकसूची जनवरी 22 दिनाङ्के प्रकाशिती।

अभ्यर्थिनः जनवरी 23 दिनाङ्के नाम प्रतिनिवर्तयितुं शक्नुवन्ति।

ततः परम् अन्तिमसूची प्रकाश्य निर्वाचनचिह्नानि वितरिष्यन्ते।

प्रचारकार्य—

प्रचारः 3 मार्चदिनाङ्कस्य पर्यन्तम् अनुमतः।

तस्मिन् दिने सायं ५ वादनात् मौनावधि आरभ्यते।

मार्च् 5 दिनाङ्के प्रातः 7 वादनात् सायं 7 वादनपर्यन्तं मतदानप्रक्रिया भविष्यति।

निर्वाचनायोगस्य सूचनेन

मतदानस्य समाप्तेः अनन्तरं सर्वाः मतपेटिकाः जनपदमुख्यालयस्थितमतगणनाकेन्द्रे एकत्रीकरिष्यन्ते तथा च तत्क्षणमेव मतगणनाप्रक्रिया आरप्स्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani