भारत-रूस-देशयोः देहल्याः हैदराबादभवने 23-मी शिखर-वार्ता अद्य, अनेकेषां राष्ट्राणां भविष्यति दृष्टिः
नवदेहली, 5 दिसंबरमासः (हि.स.)। भारत–रूसयोः सम्बन्धेषु शुक्रवारस्य दिवसः अत्यन्तं महत्त्वपूर्णः भविष्यति इति प्रतीयते। भारतस्य द्वि-दिवसीय यात्रायै आगतम् रूसदेशस्य राष्ट्रपतिः व्लादिमीरः गुरुवासरे दिल्लीं प्राप्तः, तस्य स्वागतं प्रधानमन्त्रिणा नरेन्
भारत-रूस शिखर वार्ता आज


नवदेहली, 5 दिसंबरमासः (हि.स.)। भारत–रूसयोः सम्बन्धेषु शुक्रवारस्य दिवसः अत्यन्तं महत्त्वपूर्णः भविष्यति इति प्रतीयते। भारतस्य द्वि-दिवसीय यात्रायै आगतम् रूसदेशस्य राष्ट्रपतिः व्लादिमीरः गुरुवासरे दिल्लीं प्राप्तः, तस्य स्वागतं प्रधानमन्त्रिणा नरेन्द्रमोदीना विमानपत्तने कृतम्। उभौ नेतारौ एकस्मिन् एव वाहनम् आरुह्य प्रधानमन्त्रिणः निवासम् अगच्छताम्। अद्य भारत–रूसयोः मध्ये दिल्लीस्थिते हैदराबाद-भवने 23-मी शिखर-वार्ता भविष्यति, यस्मिन् उभयोरपि राष्ट्रयोः मध्ये महत्त्वपूर्णानां समझौतूनां सम्भावना अस्ति।

रूस-देशेन सह भारतस्य द्विपक्षीय-सन्धीनां दृष्या अद्य दिनः अतीव महत्त्वपूर्णः। प्रातः 11.50 वादने हैदराबाद-भवने उभयोरपि राष्ट्रयोः मध्ये 23-मी शिखर-वार्ता भविष्यति, यस्मिन् रक्षा-विभागे, ऊर्जा-विभागे, तन्त्रज्ञान-विकासे, व्यापारे च परस्परहितेषु द्विपक्षीय-विषयेषु महत्त्वपूर्णाः संधयः सम्भवन्ति। शिखरवार्तायाः केन्द्रबिन्दुः भविष्यति—रक्षा-सम्बन्धानां सुदृढीकरणम्, परस्पर-व्यापारस्य बाह्यम् दबावात् संरक्षणम्, लघु-मॉड्यूलर-सम्यन्त्रेषु सहकार्यस्य सम्भावनाः च परिशीलनम्।

अस्य सभाविषये अमेरिका, पाकिस्तानम्, चीनः तथा पश्चिम-देशाः अपि सूक्ष्मदृष्ट्या निरीक्षणं करिष्यन्ति। भारत-यात्रायां आगते रूस-राष्ट्रपतिना सह प्रधानमन्त्रिणः सौहार्दपूर्णाः सम्बन्धाः अपि एतेषां राष्ट्राणां माध्यमेषु चर्चाविषयः भवति। रूसभारतशिखरवार्ता तस्मिन् समये भवति यदा अमेरिका रूसीयतेलक्रयणम् अधिकृत्य भारतस्य प्रति 50-शतांश-शुल्कं निर्धारितवन्तः, येन भारत–अमेरिका-सम्बन्धेषु अवनतिः अभवत्। एवं च वैश्विकस्तरे रूसयुक्रेनयुद्धस्य परिप्रेक्ष्ये अमेरिकीय-मध्यस्थता-जन्याः परिस्थितयः अपि वर्तन्ते। अतः उभयोरपि राष्ट्रयोः मध्ये अद्य भवितव्यानि सन्धिविषये विश्वस्य दृष्टयः निवेशिताः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता