राष्ट्रपतिः 09 दिसंबर दिनांके शिल्पकारान् करिष्यति सम्मानितान्
नवदिल्ली, 05 दिसंबरमासः (हि.स.) राष्ट्रपतिः द्रौपदी मुर्मुः नवमे दिसम्बरदिने नवदिल्ली नगरे राष्ट्रियहस्तशिल्पपुरस्कारं शिल्पगुरुपुरस्कारं च प्रदाय उत्कृष्टान् शिल्पिनः सम्मानयिष्यन्ति। वस्र मंत्रालयेन शुक्रवासरे प्रसारितायाः विज्ञप्तेः अनुसारं व
वस्त्र मंत्रालय


नवदिल्ली, 05 दिसंबरमासः (हि.स.)

राष्ट्रपतिः द्रौपदी मुर्मुः नवमे दिसम्बरदिने नवदिल्ली नगरे राष्ट्रियहस्तशिल्पपुरस्कारं शिल्पगुरुपुरस्कारं च प्रदाय उत्कृष्टान् शिल्पिनः सम्मानयिष्यन्ति। वस्र मंत्रालयेन शुक्रवासरे प्रसारितायाः विज्ञप्तेः अनुसारं वर्षे 2023 वर्षे 2024 च विशिष्टशिल्पकारेभ्यः एते पुरस्काराः प्रदानाः भविष्यन्ति। अस्य मुख्योद्देश्यं जनजागरणस्य वृद्धिः कारीगराणाम् आजीविकायाः सुदृढीकरणं देशस्य समृद्धहस्तशिल्पविरासतायाः मान्यता च।

अस्मिन् कार्यक्रमे ये शिल्पिनः स्वकारुशिल्पेन नवोन्मेषेण च राष्ट्रस्य कलात्मकविरासतां पोषयन्ति ते सम्मानं प्राप्स्यन्ति। अस्मिन्नवसरे केन्द्रीयवस्रमन्त्री गिरिराज सिंह वस्र विदेशराज्यमन्त्री पवित्रा मार्गेरिटा इत्यादयः कलाकाराश्च उपस्थिताः भविष्यन्ति।

उल्लेखनीयम् यत् अयं पुरस्कारसमारोहः राष्ट्रियहस्तशिल्पसप्ताहस्य दिसम्बरमासस्य अष्टमदिनात् चतुर्दशदिनपर्यन्तं यावत् आयोजितस्य समारोहस्य महत्वपूर्णः अंशः अस्ति। अस्यां सप्ताहव्यापिन्यां देशव्यापी कृते कारीगराणां सम्मानार्थं हस्तशिल्पसंस्कृतेः महत्वस्य प्रकाशनार्थं विविधानि कार्यक्रमाणि आयोज्यन्ते।

हस्तशिल्पक्षेत्रं शताब्दिपरम्परान् संरक्ष्य धत्ते विशेषतया ग्राम्यप्रदेशेषु अनन्तं जनसमूहम् आजीविकया धारयति देशस्य निर्यातार्जने अपि महत्वपूर्णं योगदानं करोति। वस्रमन्त्रालयं कौशलवर्धनस्य श्रेष्ठबजारसुलभतायाश्च माध्यमेन कारीगरसशक्तीकरणार्थं समर्पितम् अस्ति।

---------------

हिन्दुस्थान समाचार