Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 06 दिसंबरमासः (हि.स.)। मुख्यमंत्रिना पुष्करसिंहधामिना शनिवासरे संविधाननिर्मातुः भारतरत्न बाबा साहेब् डॉ भीमरावअम्बेडकरस्य पुण्यतिथौ तस्य चित्रे पुष्पाञ्जलिः अर्पितः। अस्मिन् अवसरे मुख्यमंत्री अवदत् यत् बाबा साहेब् जीवनपर्यन्तं शिक्षा समानता स्वाभिमान इति दीपं प्रज्वालयन् देशं प्रेरितवन्तः।मुख्यमंत्री उक्तवान् यत् बाबा साहेबस्य मार्गानुसरणेन उत्तराखण्डराज्ये समाननागरिकसंहिता (यूसीसी) इत्यस्य प्रवर्तनम् कृत्वा सामाजिकसमरसतायाः न्यायस्य च स्वप्नस्य साकारीकरणदिशि ऐतिहासिकःपादः उच्चालितः।----------------
हिन्दुस्थान समाचार