Enter your Email Address to subscribe to our newsletters

पटना, 06 दिसम्बरमासः (हि.स.)। भारतरत्न बाबा साहेब् डॉ भीमरावअम्बेदकरस्य महापरिनिर्वाणदिवसस्य अवसरे शनिवासरे पट्नाउच्चन्यायालयस्य समीपे स्थिते तस्य प्रतिमास्थले राजकीयसमारोहः आयोजितः। तत्र मुख्यमंत्री नीतीशकुमारः प्रतिमायाः समीपे पुष्पाञ्जलिम् अर्पयन् श्रद्धासुमनानि दत्तवान्।
अस्मिन् अवसरे राज्यस्य उपमुख्यमंत्री स्रमाटचौधरी, बिहारविधानसभाध्यक्षः डॉ प्रेमकुमार, जलसंसाधन संसदीयकार्यमन्त्री विजयकुमारचौधरी, सांसदः संजयकुमारझा इत्यादयः अधिकाः जनप्रतिनिधयः सामाजिकसंस्थांच्या प्रतिनिधयः राजकीयकार्यकर्तारश्च उपस्थिताः सन्तः तेऽपि बाबा साहेबं प्रणेमुः।
कार्यक्रमकाले सूचना जनसम्पर्कविभागस्य कलाकारैः बाबा साहेबस्य जीवनगाथा प्रेरणा च संविधाननिर्माणे तस्य योगदानं च आधृताः गीताः भजनकीर्तनानि बिहारगीतं च प्रस्तुतम्।------------
हिन्दुस्थान समाचार