Enter your Email Address to subscribe to our newsletters

शिमला, 06 दिसंबरमासः (हि.स.)।संविधाननिर्मातुः भारतरत्न बाबा साहबस्य डॉ भीमरावअम्बेडकरस्य महापरिनिर्वाणदिवसे शनिवासरे राजभवने श्रद्धाञ्जलिसमारोहः आयोजितः। अस्मिन् अवसरि राज्यपालः शिवप्रतापशुक्लः राजभवनस्य दरबारहाल् मध्ये स्थिते डॉ अम्बेडकरस्य चित्रे पुष्पाञ्जलिम् समर्प्य तेषां प्रति विनम्रां श्रद्धाञ्जलिम् अकार्षीत्।
राज्यपालेन उक्तम् यत् बाबा साहबेन सामाजिकन्यायस्य समानतायाः संवैधानिकमूल्यानां च या दृढा नीवं स्थापिता, सा सर्वदा राष्ट्रस्य मार्गदर्शिका भविष्यति। तेनेदमपि निगदितम् यत् वयं सर्वे अपि तेषां आदर्शान् आत्मसात् कृत्वा समावेशिनः न्यायपूर्णस्य सशक्तस्य च भारतस्य निर्माणे स्वीयं योगदानं देयम्।
राज्यपालः अवदत् यत् अद्य भारतं विश्वस्य महान् लोकतन्त्रदेशः अस्ति, एषः च संविधानस्य महिम्नः फलम्, यत् संविधानं बाबा साहबेन अत्यन्तपरिश्रमेन दूरदृष्ट्या च निर्मितम्।
तेनेदमपि उक्तम् यत् संविधानम् अधिकारैः सह कर्तव्येषामपि उल्लेखं करोति; किन्तु प्रायः जनाः स्वान् अधिकारान् प्रति सजगाः भवन्ति, कर्तव्यनिरवाहं तु अनाद्रियन्ते। तेनेदमपि सूचितम् यत् यदा यदा वयं स्वस्वाधिकारान् प्रति सचेतनाः भवामः, तदा तदा ज्ञातव्यं यत् कर्तव्यपालनमेव अधिकारस्य रक्षणं करोति। अतः प्रथमं कर्तव्यस्मरणमेव आवश्यकम्।
राज्यपालेन एतदपि प्रतिपादितम् यत् एतादृशानां महापुरुषाणां कार्येभ्यः एव समाजस्य राष्ट्रस्य च प्रगतिर्भवितुम् अर्हति। तेनेदमपि उक्तम् यत् बाबा साहबेन भारतवासिभ्यः संविधानं प्रदाय देशं जागरितं कृतम्; तदेव संविधानं अद्यापि राष्ट्रस्य लोकतान्त्रिकव्यवस्थायाः आधारस्तम्भः अस्ति।
---------------
हिन्दुस्थान समाचार