Enter your Email Address to subscribe to our newsletters

शिमला, 06 दिसंबरमासः (हि.स.)।भारतरत्न भारतीयसंविधानस्य निर्मातुश्च डॉ भीमरावअम्बेडकरस्य पुण्यतिथौ शनिवासरे मुख्यमन्त्रिणा ठाकुरसुखविन्द्रसिंहसुक्खूना शिमलानगरस्य चौडामैदानस्थायां तस्य प्रतिमायाम् पुष्पाञ्जलिरर्पिता, तथा तस्मै श्रद्धाञ्जलिः समर्पिता।
अस्मिन् अवसरे मुख्यमन्त्रिणा उक्तम् यत् डॉ अम्बेडकरः महान् राजनीतिज्ञः समाजसुधारकः सामाजिकोन्नायकश्च आसीत्। सः जीवनपर्यन्तं समानतायाः सामाजिकन्यायस्य वंचितवर्गाणां च अधिकारानां कृते संघर्षं कृतवान्।
मुख्यमन्त्रिणा एवमुक्तम् यत् संविधाननिर्माणकाले डॉ अम्बेडकरः सर्वेभ्यः वर्गेभ्यः समानाधिकारान् सुनिश्चितवान्, भारतस्य लोकतान्त्रिकव्यवस्थायै दृढम् आधारं च प्रदत्तवान्। अद्य राष्ट्रस्य लोकतान्त्रिकसंरचना न्यायपूर्णसमाजव्यवस्था च बाबा साहेबस्य दूरदृष्टेः अथकसंघर्षस्य च फलम् इति। तेषां विचारधारा योगदानं च आधुनिकभारताय नूतनदिशं ददति समाजस्य च प्रेरणास्रोतं भवन्ति।
श्रद्धाञ्जलिप्रकरणे ग्रामीणविकास पंचायतराजमन्त्री अनिरुद्धसिंह, प्रदेशकांग्रेसाध्यक्षः विनयकुमारः, उपमहापौरः उमा कौशलः, महाधिवक्ता अनुपरत्नः, पूर्वविधानसभाध्यक्षः गंगूराममुसाफिरः, पूर्वमहापौरः अनेके पार्षदाश्च उपस्थिताः।
तथा उपायुक्तः अनुपमकश्यपः, पुलिसाधीक्षकः संजीवगान्धी इत्यादयः अधिकारीणः गणमान्यव्यक्तयश्च कार्यक्रमे सम्मिलिताः, ते च डॉ अम्बेडकरस्य प्रतिमायाम् पुष्पाणि समर्प्य श्रद्धांजलिम् अकार्षुः।
---------------
हिन्दुस्थान समाचार