Enter your Email Address to subscribe to our newsletters

वाराणसी, 6 दिसंबरमासः (हि.स. )।काशीतमिलसंगमस्य चतुर्थसंस्करणे भागग्रहणार्थं तमिलनाडुप्रदेशात् शनिवासरे तृतीयसमूहो अपि काशीम् आगतः। स दलः विशेषरेलेन बनारस रेलस्थानकं प्राप्तः। अयं तृतीयः समूहः लेखकानां वर्तते। स्थानके अवतीर्य तत्क्षणमेव डमरूवादनैः पुष्पवर्षया च तथा हरहरमहादेव इत्यस्य उच्चारणेन वणक्कं काशी इत्यनेन च परम्परानुसारं तेषां स्वागतं कृतम्।
अभिनन्दनकाले प्रदेशस्य मन्त्रिणः अनिलराजभर महोदयः प्रशासनिकाधिकारीणां सह उपस्थिताः। समूहाय काशीसंस्कृतेः सौहार्दभावं तमिलकाश्योः ऐतिहासिकसंबन्धं च अवगतप्रायं कृत्वा अभिवादनं दत्तम्। पारम्परिकं स्वागतदर्शनं कृत्वा तमिलसमूहस्य सदस्येषु विशेषः उत्साहः दृष्टः। अनेकैः उक्तं यत् काश्यां प्राप्ता सौहार्दता आध्यात्मिकपरिसरश्च तेषां कृते अविस्मरणीयौ स्तः।
डमरूवादनध्वन्या सर्वं परिसरं शिवमयं जातम्। काशीतमिलनाड्वोः सांस्कृतिकैक्यस्य दृश्यं स्पष्टरूपेण प्रकटितम्। कार्यक्रमस्य निश्चितकार्यक्रमानुसारं अयं तमिलनाडुतः आगतः समूहः शनिवासरे श्रीकाशीविश्वनाथधामे दर्शनपूजनं करिष्यति। ततः परं गङ्गातटं घाटान् च नगरस्य प्रमुखान् सांस्कृतिकशैक्षिकस्थलान् च भ्रमणं करिष्यन्ति।
आयोजनसमित्याः सदस्यैः उक्तं यत् अतिथीन् काशीस्य समृद्धवारसात् कला संस्कृति अध्यात्मतत्त्वेभ्यश्च अवगाहयितुं विशेषकार्यक्रमाः सन्निहिताः। ज्ञातव्यं यत् काशी तमिल संगमम इत्यस्य उद्देश्यं काशी तथा तमिलनाडुयोः प्राचीनसांस्कृतिकधार्मिकशैक्षिकसंबन्धानां पुनर्जीवनम् अस्ति। अस्मिन् वर्षे चतुर्थं संस्करणं आयोजितं यस्मिन् विभिन्नक्षेत्रेभ्यः शिक्षासंस्कृतिसाहित्यकलाउद्योगेषु संलग्नाः प्रतिनिधयः सहभागिनो भवन्ति।
हिन्दुस्थान समाचार