बाबरी विध्वंसस्य वार्षिक्यां ममता अददात् एकतायाः संदेशम्
कोलकाता, 06 दिसंबरमासः (हि.स.)।बाबरीविध्वंसस्य वार्षिकीदिने मुख्यमन्त्र्या ममताबनर्जी महाभाग्यया एकतायाः संदेशः प्रदत्तः। तेन सह सा संकेततया दक्षिणपन्थीयराजनीतिकदलेषु अपि प्रहारं कृतवती। सा शनिवासरे स्वस्य एक्स् ह्यान्डल् इत्यत्र लेखित्वा अवदत् यत
ममता


कोलकाता, 06 दिसंबरमासः (हि.स.)।बाबरीविध्वंसस्य वार्षिकीदिने मुख्यमन्त्र्या ममताबनर्जी महाभाग्यया एकतायाः संदेशः प्रदत्तः। तेन सह सा संकेततया दक्षिणपन्थीयराजनीतिकदलेषु अपि प्रहारं कृतवती।

सा शनिवासरे स्वस्य एक्स् ह्यान्डल् इत्यत्र लेखित्वा अवदत् यत् केचन राजनीतिकदला जानबूझकर अशान्तिं जनयितुम् इच्छन्ति, किन्तु तेषां प्रयासानां विरुद्धं संघर्षः निरन्तरं प्रवर्तिष्यते।

मुख्यमन्त्रिणी संदेशस्य आरम्भे सर्वेभ्यः संहति दिवसस्य संप्रिति दिवसस्य च शुभाशंसाः दत्तवन्ती। सा लिखितवती यत् बङ्गालस्य संस्कृति: सर्वदा सौहार्दस्य सहवासस्य भ्रातृत्वस्य च प्रतीका आसीत्, अतः विभाजनकारिणीं राजनीतििं राज्यं कदापि न स्वीकुरुते। तस्याः मतानुसारं सरकारस्य दायित्वं यत् जनानां कृते सुरक्षितपर्यावरणं प्रदीयताम् तथा सामाजिकैकता स्थाप्यताम्।

सैव अस्मिं बिन्दौ अपि बलं दत्तवती यत् अपवादाः परस्परम् -अविश्वासवर्धकशक्तयः च राज्यस्य जनानां कृते कदापि सफलाः न भविष्यन्ति। ममताया मतम् यत् बङ्गालः विविधतायाम् एकतायाḥ प्रतीकः अस्ति, अस्याः विरासत् रक्षणाय सर्वेऽपि संयुक्ततया स्थितुं आवश्यकम्।

हिन्दुस्थान समाचार