छत्तीसगढ़स्य रायपुरविमानस्थानके अद्यापि दिल्ली, मुंबई अथ बेंगलुरुं गच्छन्ति 6 विमानानि निरस्तानि, यात्रिणः खिन्नाः
रायपुरम्, 06 दिसंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य राजधानी रायपुरविमानपत्तने इण्डिगो विमानसेवायाः दिल्ली मुंबई बेंगलुरु इन्दौर इत्यादिदेशान् प्रति यावत् गच्छन्त्यः प्रायः षड् उडानाः अद्यापि रद्दाः भवन्ति। शुक्रवासरे अपि चालककर्मचारिणां पायलटजनानां च
रायपुर के स्वामी विवेकानंद एयरपोर्ट पर परेशान यात्रीगण


रायपुरम्, 06 दिसंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य राजधानी रायपुरविमानपत्तने इण्डिगो विमानसेवायाः दिल्ली मुंबई बेंगलुरु इन्दौर इत्यादिदेशान् प्रति यावत् गच्छन्त्यः प्रायः षड् उडानाः अद्यापि रद्दाः भवन्ति। शुक्रवासरे अपि चालककर्मचारिणां पायलटजनानां च न्यूनतया इण्डिगो संस्थाया दिल्लीगमनस्य पञ्च उडानाः मुंबईगमनस्य त्रयः गोवा इन्दौर कोलकाता इत्येतान् मार्गान् आवृत्य उपगमननिगमनरूपे विंशतिः उडानाः रद्दाः कृताः।

इण्डिगो विमानकम्पन्या निरन्तरं पञ्चदिनानि बह्व्यः उडानाः रद्दाः कृताः, येन सर्वेषु विमानपत्तनेषु कोलाहलयुक्तः वातावरणः जातः। रायपुरात् मुंबईगमनस्य विमानभाड़ा षट्चत्वारिंशत्सहस्रम् अतिक्रान्तम्। अतः रायपुरस्थिते स्वामी विवेकानन्द विमानपत्तने शुक्रवासरं सर्वं दिनं विरामरहितः कोलाहलः जातः। यात्रिणः महानाम् असुविधां भोक्तुं बाधिताः। विमानपत्तने स्थितानाम् अपि यात्रिणां न निवासकक्षः दत्तः न च चायं वारि नाश्तं भोजनं वा; सर्वं स्वयमेव क्रीतव्यम् अभवत्। अन्यविमानकम्पन्यानां भाड़ापि अत्यधिकं वर्धितम्।

इण्डिगो पूर्वमेव विज्ञप्त्या उक्तवती यत् सम्पूर्णपरिचालनस्य सामान्यस्थितिः प्राप्तुं द्वित्रिदिनपर्यन्तं कालावकाशः अपेक्षितः।

यात्राटिकटं बुक्करणकारिणः एजेन्टाः अवदन् यत् उडानरद्धत्वात् सप्तसहस्रात् अधिका यात्रिणः स्वयात्रां रद्दां कर्तुं बाधिताः। दिल्ली मुंबई गन्तुं प्रयोजनवन्तः अनेके यात्रिणः सन्ति ये विदेशगमनाय अन्यविमानं प्राप्तुं प्रयासं कुर्वन्ति स्म। रायपुरात् हैदराबाद चेन्नै च गन्तुं शताधिकाः यात्रिणः चतुर्विंशतिघण्टापर्यन्तं विमानपत्तने एव प्रतीक्षन्ते स्म। तेषु कोस्यपि यात्रिणः इमेल् अथवा एसएमएस द्वारा सूचना न प्राप्ता।

जयपुरे विवाहसमारम्भाय गन्तुं प्रयाणशीलः कश्चन वाद्यदलसङ्घः प्रातः षड्वादनादारभ्य विमानपत्तने एव उपविष्टः अस्ति। तैः उक्तम् — “अस्माकं न केवलं एकः कार्यक्रमः, अपि तु द्वौ कार्यक्रमौ आसताम्। षण्मासपूर्वं बुक्करणं कृतम्। अस्माकं लाखानां रूप्यकाणां हानिः जातः। कोस्यापि उत्तरदायित्वं न दृश्यते।” यात्रिणः एतदपि आरोपयन्ति यत् इण्डिगो हेल्पडेस्क इत्यत्र वरिष्ठाधिकारी कश्चन नास्ति न च स्थिरः समाधानात्मकः उत्तरः दीयते।

दिल्लीगमनाय एकाऽपि महिला यत्रिका रोदित्वा अवदत् —

“मम पुत्रः दिल्लीमध्ये अस्ति। तस्य स्वास्थ्यम् अत्यन्तं दुष्टम्। अहं तस्य समीपं गन्तुं प्रयता। प्रातःकालादारभ्य उड्डयानि निरन्तरं निरस्तानि भवन्ति। काउन्टरे वदन्ति यत् षट्सहस्ररूप्यकाणि आवर्तनरूपेण गृहाण ततः अन्यया उडानया गच्छ। परन्तु तत्र पञ्चविंशतिसहस्ररूप्यकाणि अधिकानि दातव्यानि भवन्ति।”

____________

हिन्दुस्थान समाचार