Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 6 दिसंबरमासः (हि.स.)।भारतीयसंविधानस्य शिल्पकारिणो भारतरत्नस्य बाबा साहब् डॉ भीमरावआंबेडकरस्य महापरिनिर्वाणदिवसे केन्द्रीयशिक्षामन्त्रिणा धर्मेन्द्रप्रधानेन श्रद्धाञ्जलिः अर्पिता। धर्मेन्द्रप्रधानः अवदत् यत् डॉ आंबेडकरस्य समग्रजीवनं सामाजिकन्यायस्य समानतायाः मानवाधिकाररक्षणस्य च प्रति समर्पितम् आसीत्। ते वंचितानां शोषितानां समाजस्य च अन्त्यस्थानस्थितस्य व्यक्तेः अधिकाराणां प्रबलस्वरः अभवन्।
तेनोक्तम् यत् बाबा साहबेन आधुनिकस्य समावेशिनः लोकतान्त्रिकस्य भारतस्य आधारशिला स्थापिता। तेषां विचारदर्शनं अद्यापि राष्ट्रस्य सामूहिकचेतनां दिशादर्शकः प्रेरकप्रकाशस्तम्भः अस्ति।
शिक्षामन्त्रिणा संदेशे अपि उक्तम् यत् राष्ट्रं तदा एव सत्यां प्रगत्यां याति यदा समाजस्य अन्तिमपायदानस्थितः जनः सशक्तो भवति—एवमेव च डॉ आंबेडकरस्य महान् निक्षेपो विद्यमानः।
---------------
हिन्दुस्थान समाचार