Enter your Email Address to subscribe to our newsletters

भोपालम् 06 दिसम्बरमासः (हि.स.)। मध्यप्रदेशस्य रीवाजिलायाम् गङ्गेवविकासखण्डे पञ्चविंशतिसहस्र-गौवंशस्य आश्रयार्थं हिनौतिगौधामस्य निर्माणं प्रचलति। उपमुख्यमन्त्री राजेन्द्रशुक्लः अद्य शनिवासरे हिनौतिगौधामे द्वयोः गोशाला–शेड्–निर्माणस्य भूमिपूजनं करिष्यन्ति। उपमुख्यमन्त्री शुक्लः नवनिर्मितयोः द्वयोः गोशालयोः लोकार्पणं अपि करिष्यन्ति। जनसम्पर्क-अधिकारी उमेशतिवारी उक्तिं दत्त्वा अवदत् यत् कार्यक्रमस्य अध्यक्षतां सांसदः जनार्दनमिश्रः करिष्यति। समारोहेषु विधायकः नरेन्द्रप्रजापतिः, जिलापञ्चायत-अध्यक्षा नीता कोल्, संग्राहक-पत्रिभा पाल्, जनपद-अध्यक्षः विकासतिवारी, संयुक्त-संचालकः पशुपालन-विभागस्य डॉ धीरेन्द्रसिंहबघेलः च उपस्थिताः भविष्यन्ति। समारोहः मध्याह्ने तृतीयप्रहरादारभ्य भविष्यति।
उपमुख्यमन्त्री अद्य होमरक्षक-स्थापनादिवस-समारोहेषु अपि भागं ग्रहीष्यन्ति।
उपमुख्यमन्त्री राजेन्द्रशुक्लः अद्य रीवायां होमरक्षक-स्थापनादिवस-समारोहे मुख्यातिथिरूपेण उपस्थिताः भविष्यन्ति। प्रभाते दशवादने होमरक्षक–परेड्–मैदानं प्राप्य परेडस्य सलामीं ग्रहीष्यन्ति, परेडस्य निरीक्षणं करिष्यन्ति च। अनन्तरं होमरक्षक–जवानैः मार्च-पास्ट् क्रियते। उपमुख्यमन्त्री समारोहे होमरक्षक–स्थापनादिवस-संदेशस्य वाचनं करिष्यन्ति तथा मेधावी–विद्यार्थिभ्यः होमरक्षक–जवानभ्यश्च पुरस्कारान् दास्यन्ति। उपमुख्यमन्त्री होमरक्षक–परिसरे निर्मितं नवं सैनिक-बैरकं च उद्घाटयिष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता