मुरादाबादे प्रवासे 6 जनवरी दिनाङ्के आगमिष्यति डॉ प्रवीण भाई तोगड़िया
मुरादाबादम्, 08 दिसम्बरमासः (हि.स.)। राष्ट्रियबजरंगदलस्य प्रदेशाध्यक्षः रोहनसक्सेनाऽनेन सोमवासरे सूचितं यत् आगामिनि 6 जनवरी तिथौ अन्ताराष्ट्रियहिन्दूपरिषदस्य अन्ताराष्ट्रियाध्यक्षः विश्वविख्यातः क्यान्सर्-शल्यचिकित्सकः डॉ प्रवीणभाई तोगडिया मुरदाबाद
अंतर्राष्ट्रीय हिंदू परिषद के अंतरराष्ट्रीय अध्यक्ष विश्व विख्यात कैंसर सर्जन डॉ प्रवीण भाई तोगड़िया


मुरादाबादम्, 08 दिसम्बरमासः (हि.स.)। राष्ट्रियबजरंगदलस्य प्रदेशाध्यक्षः रोहनसक्सेनाऽनेन सोमवासरे सूचितं यत् आगामिनि 6 जनवरी तिथौ अन्ताराष्ट्रियहिन्दूपरिषदस्य अन्ताराष्ट्रियाध्यक्षः विश्वविख्यातः क्यान्सर्-शल्यचिकित्सकः डॉ प्रवीणभाई तोगडिया मुरदाबाद-महानगरे प्रवासं करिष्यति।

प्रवासकाले डॉ तोगडिया सम्भलनगरे हरिहरमन्दिरस्य जीर्णोद्धारम् आगामी कार्यक्रमानां योजनां च विषये चर्चां करिष्यति।

रोहनसक्सेनायाः वचनानुसारं डॉ प्रवीणभाई तोगडियावर्यस्य मुरदाबादे प्रवासं प्रति सज्जाः आरब्धाः। कार्यकर्तृभिः गृहे गृहे गत्वा सम्पर्कः क्रियते। चिकित्सकानां सम्मेलनम्, व्यापारीणां सह उपवेशनं कार्यकर्तृसभा च डॉ तोगडियस्य प्रवासेन सह नियोज्यन्ते।

एतेषां कार्यक्रमाणां निमित्तम् शीघ्रमेव मुरदाबाद-महानगरस्य जिलस्य च दलसमितेः उपवेशनमपि आयोजनीया यत्र विस्तीर्णा योजना निर्माणं भविष्यति।

हिन्दुस्थान समाचार