योगिशासनस्य आबकारीनीत्या निवेशे वेगः, जीविकोपर्जनसृजने नवानि आयामान्उद्घाटितानि।
— एथेनॉल-उत्पादने अभूतपूर्वः उत्कर्षः, उत्तर-प्रदेशः देशस्य एथेनॉलकेन्द्रं जातम्। — राजस्ववृद्ध्या सह निवेशस्य संवर्धनात् ‘वन-ट्रिलियन-डॉलर्’ अर्थव्यवस्था-निर्माणे महत् योगदानम्। लखनऊनगरम्, 8 दिसम्बरमासः (हि.स.)। मुख्यमन्त्रिणो योगिनःआदित्यनाथस्
मुख्यमंत्री योगी आदित्यनाथ


— एथेनॉल-उत्पादने अभूतपूर्वः उत्कर्षः, उत्तर-प्रदेशः देशस्य एथेनॉलकेन्द्रं जातम्।

— राजस्ववृद्ध्या सह निवेशस्य संवर्धनात् ‘वन-ट्रिलियन-डॉलर्’ अर्थव्यवस्था-निर्माणे महत् योगदानम्।

लखनऊनगरम्, 8 दिसम्बरमासः (हि.स.)।

मुख्यमन्त्रिणो योगिनःआदित्यनाथस्य शासनस्य पारदर्शिनी निवेशोन्मुखी च आबकारीनीतिः वर्षे २०२५ तमे प्रदेशस्य राजस्वव्यवस्थां सुदृढीकर्तुं महत्त्वपूर्णां भूमिकां निर्वहति। एथेनॉल-उत्पादने तथा विक्रये च अभिलेखीयवृद्ध्या न केवलं औद्योगिक-क्रियाकलापाः तीव्रतां प्राप्तवन्तः, अपि तु प्रदेशः राष्ट्रीयस्तरे एथेनॉल-उत्पादनक्षेत्रे अग्रगण्यस्थानं प्राप्तवान्। उत्पादने अभूतपूर्ववृद्धिः, विक्रये निवेशप्रस्तावेषु च तीव्रता—एते सर्वे सूचयन्ति यत् राज्यस्य अर्थव्यवस्था नूतनयुगे प्रवेशं कुर्वन्ती अस्ति।

— एथेनॉल-उत्पादने नवः कीर्तिमानः।

उत्तरप्रदेशे नवम्बरमासे २०२५ पर्यन्तं १४१.८ कोटिलीटर् परिमाणस्य एथेनॉल इत्यस्य उत्पादनं जातम्, यदद्यावधि सर्वोत्तमं प्रदर्शनम् अस्ति। योगि-आदित्यनाथशासनस्य संरचनात्मकसुधारैः, तान्त्रिक-अनुकूलतया तथा ‘ईज्-ऑफ्-डूइंग्-बिज़नेस’ नीत्या मद्य, बीयर्, वाइन् तथा मद्याधारित-उद्योगेषु उल्लेखनीयवृद्धिः अभवत्। प्रदेशे १०५.२५ कोटिलीटर् तथा प्रदेशात् बहिः ४०.९६ कोटिलीटर् एथेनॉलविक्रयेन उत्तरप्रदेशः एथेनॉल-आपूर्तेः विश्वसनीयकेन्द्ररूपेण प्रतिष्ठितः अभवत्। उत्तरप्रदेशः देशस्य अग्रगण्येषु एथेनॉल-उत्पादकप्रदेशेषु स्थापितः जातः। अनेन न केवलं उद्योगाः प्रोत्साहिताः, अपितु ग्रामीणस्तरेऽपि आर्थिकक्रियाकलापाः वेगं प्राप्तवन्तः।

— आबकारीक्षेत्रे निवेशात् अर्थव्यवस्थायाः सुदृढीकरणम्।

उत्तरप्रदेशे मद्याधारित-उद्योगक्षेत्रे महाकॉरपोरेटसमूहात् आरभ्य मध्यमक्षेत्र-उद्योगपर्यन्तं निवेशकाः स्वपरियोजनानां विस्तारं कुर्वन्ति। उत्तरप्रदेशस्य आबकारी-आयुक्तः डॉ. आदर्शसिंहः अवदत् यत् ‘इन्भेस्ट्-यू.पी.’ परियोजनायाः अन्तर्गतम् अद्यावधि १२५ सन्धयः हस्ताक्षरिताः सन्ति, येषां माध्यमेन ३,०७,३५ कोटिरूप्यकाणाम् निवेशप्रक्रिया प्रचलति। अपरं ४३ ‘रेडी-टू-लॉन्च्’ परियोजनाः सन्ति, येषां कृते भूमिविनियोगः कृतः अस्ति; एतस्मिन् अन्तर्गतं ६८९८.८८ कोटिरूप्यकाणाम् निवेशप्रक्रिया प्रचलति। ‘इन्भेस्ट्-यू.पी.’ अन्तर्गतं वर्तमानकाले १९ परियोजनाः सञ्चालिताः सन्ति, येषु २९०० कोटिरूप्यकेभ्यः अधिकः निवेशः सम्पन्नः अस्ति; एताः परियोजनाः ४८०० अधिक-जीविकोपार्जकान् अपि सृजितवत्यः। ‘नॉन-एम्.ओ.यू.’ अन्तर्गतं २८ परियोजनाः सञ्चालिताः सन्ति, यत्र २७५२ कोटिरूप्यकाणाम् निवेशः कृतः अस्ति।

— जीविकोपार्जनसृजनात् युवाभ्यः नव-अवसराः।

आबकारीक्षेत्रे निवेशप्रस्तावैः ९९४० अधिक-जीविकोपार्जन-अवसराः सम्भाव्याः सन्ति। एतत् योगिशासनस्य तस्याः नीत्याः फलम्, यया औद्योगिकविकासः प्रत्यक्षतया जीविकोपार्जनसृजनेन सह संयोजितः अस्ति। अनेन स्थानीययुवाभ्यः स्वप्रदेशे एव उत्तमानि अवसराणि प्राप्स्यन्ति तथा औद्योगिक-आधारः अपि सुदृढः भविष्यति। उत्तरप्रदेशस्य आबकारीनीत्याः एषः सशक्तः प्रदर्शनः योगि-आदित्यनाथशासनस्य आर्थिकदृष्टेः, राजस्वप्रबन्धनकौशलस्य तथा औद्योगिकविकासं प्रति प्रतिबद्धतायाः स्पष्टः प्रमाणः एव अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani