गडकरीयोगिभिः सह अनेकैः नेतृभिः जनरलविपिनरावताय श्रद्धाञ्जलिः दत्तः
नवदेहली, ०८ दिसम्बरमासः (हि.स.)। देशस्य प्रथमः चीफ् ऑफ् डिफेन्स् स्टाफ् जनरल् बिपिन् सिंह रावतस्य चतुर्थ्यां पुण्यतिथौ सोमवासरे केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिन् गडकरी-प्रभृतयः अनेकाः प्रमुखनेतारः तं भावपूर्णां श्रद्धाञ्जलिं दत्तवन्तः। गड
केंद्रीय सड़क परिवहन मंत्री नितिन गडकरी (फाइल फोटो)।


नवदेहली, ०८ दिसम्बरमासः (हि.स.)। देशस्य प्रथमः चीफ् ऑफ् डिफेन्स् स्टाफ् जनरल् बिपिन् सिंह रावतस्य चतुर्थ्यां पुण्यतिथौ सोमवासरे केन्द्रीयमार्गपरिवहनराजमार्गमन्त्री नितिन् गडकरी-प्रभृतयः अनेकाः प्रमुखनेतारः तं भावपूर्णां श्रद्धाञ्जलिं दत्तवन्तः।

गडकरीमहाशयः अवदत्— “जनरल् रावत् भारतस्य सैन्यशक्तिं सुदृढीकर्तुम् अतीव महत्वपूर्णां भूमिकां निभातवान्।”

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अवदत्— “राष्ट्ररक्षायाम्, सैन्याधुनिकीकरणे, सुरक्षातन्त्रस्य सुदृढीकरणे च तस्य योगदानं अविस्मरणीयम्।”

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामि देहरादूनकनकचौकस्थिते उपवने जनरल् रावतस्य प्रतिमायै पुष्पचक्रं समर्पितवान्। सः अवदत्— “जनरल् रावतस्य व्यक्तित्वं साहसस्य, अनुशासनस्य, राष्ट्रभक्तेः च प्रतीकः आसीत्।” तस्मिन् अवसरे द्विनिवेशं मौनं कृत्वा दिवंगतस्य आत्मनः शान्त्यर्थं प्रार्थना कृता। सैनिककल्याणमन्त्री गणेशजोशी, विधायकः खजानदासः, सविताकपूर् च तत्र उपस्थिताः आसन्।

देहलीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता ‘पद्मविभूषण’ जनरल् बिपिन् रावतं पुण्यतिथौ विनम्रां श्रद्धाञ्जलिं दत्वा अवदत् “राष्ट्रस्य सुरक्षासंरचनां आधुनिकतया, सक्षमत्वेन, समन्विततया च निर्माणे तस्य अद्वितीयं योगदानं भारतीयसैन्य-इतिहासे सदैव स्वर्णाक्षरैः लिखितं भविष्यति। जनरल् रावतस्य जीवनं कर्तव्यस्य, अनुशासनस्य, राष्ट्रभक्तेः च अद्वितीयं उदाहरणम्। मातृभूमेः रक्षार्थं तस्य समर्पणं देशस्य प्रत्येकस्य युवानः राष्ट्रसेवाभावनाम् अधिकं सुदृढं करिष्यति।”

छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवः साय जनरल् रावतस्य शौर्यम्, दूरदृष्टिम्, राष्ट्रभक्तिं च स्मृत्वा तं प्रणनाव।

हरियाणाप्रदेशस्य मुख्यमन्त्री नायबसिंहसैनी अवदत् “जनरल् रावतस्य शौर्यम्, दूरदृष्टिः, राष्ट्रे प्रति तस्य अटूटं समर्पणं च अद्यापि अस्माकं सेनान्यः प्रेरयति। भारतीयसेनायाः आधुनिकीकरणे, सुरक्षा-आह्वानानां समाधानाय च तेन यत् अमूल्यं योगदानं दत्तम्, तत् राष्ट्रं कदापि न विस्मरिष्यति। उदग्रयानदुर्घटनायां शहीदभूतानां सर्वेषां वीरसपूतानां च प्रति अहं श्रद्धाञ्जलिं समर्पयामि।”

उल्लेखनीयम् यत् ८-दिसम्बर् २०२१ तमे दिवसे तमिलनाडुराज्यस्य कुन्नूरप्रदेशे उदग्रयानदुर्घटनायां जनरल् रावत्, तस्य पत्नी मधुलिकारावत्, अन्ये च ११ सैन्याधिकाऱिणः निधनं प्राप्तवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani