Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 दिसंबरमासः (हि.स.)केन्द्रीयवस्त्रेमन्त्री गिरिराजसिंहः अवदत् यत् पश्चिमबंगाले 'बाबरी-मस्जिद्' सम्बन्धी विषयः एकस्याः सूच्यायाः पूर्वनिश्चित-युक्तेः अङ्गम् अस्ति।
संसद्भवनपरिसरे सोमवासरे गिरिराजसिंहेन सञ्चारमाध्यमानां प्रश्नस्योत्तररूपेण एतदुक्तम्।
पश्चिमबंगालस्य तृणमूल्-काङ्ग्रेस्-दलस्य निलम्बितविधायकः हुमायूँ कबीर इति यः 'बाबरी-मस्जिद्' इत्यस्य आधारशिलास्थापनविषये उक्तवान्, तस्य विषये केन्द्रीयमन्त्रिणा प्रोक्तं यद् “एतत् सर्वं क्रीडारूपं कार्यं हुमायूँ-कबीरेण न कृतम्, अपि तु मुख्यन्त्री ममता-बनर्जी एव कृतवती। सा जानन्-पूर्वकं बंगालभूमौ हिन्दूमुस्लिमनाम्नोः आधारं कृत्वा विवादं सञ्जनयति। 'बाबरी-मस्जिद्' विषयोऽपि एकस्याः योजनाबद्धायाः रणनीतेः अनुसारं एव उपस्थापितः।
तेन संचेतना दत्ता यत् अस्य कार्यस्य प्रतीकाररूपेण ममता-बनर्जी केवलं बंगाले एव न, अपि तु सर्वत्र भारतदेशे विरोधेन सामना करिष्यति तथा तस्याः दण्डः अपि भविष्यति।
केन्द्रीयमन्त्रिणा एवमपि उक्तं यत् वन्दे मातरम्' इति गीतम् देशं एकत्वसूत्रेण संयोजयति, महद् शक्तिसम्पन्नं प्रतीकम् अस्ति। एतत् स्वतंत्रतासेनानां कृते घोषवाक्यम् प्रेरणास्रोतं च आसीत्। लोकतन्त्रस्य मन्दिरे (संसदि) ‘वन्दे मातरम्’ विषये यदि चर्चा न भविष्यति, तर्हि कुत्र भविष्यति? केचन जनाः ‘वन्दे मातरम्’ न मन्यन्ते, अपि तु ‘बाबरी-मस्जिद्’ एव मन्यन्ते।”
असौ अवदत् यद्'वन्दे मातरम्' इति गीतम् १५०-वर्ष-पूर्वं जातम्, स्वातन्त्र्यस्य गीतम्, भारतस्य विरासत् च। अतः अस्य विषये मुक्तमनसा चर्चा भवितुमर्हति।
---------
हिन्दुस्थान समाचार