Enter your Email Address to subscribe to our newsletters

कोलकाता, 8 दिसम्बरमासः (हि.स.)।
भारतीयजनतादलस्य वरिष्ठनेता दिलीप: घोषः अवदत् यत् अद्य विश्वे भारतम् यत् सम्मानं गौरवं च प्राप्तवान्, तस्य सम्पूर्णं श्रेयः प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागस्य सशक्तस्य दूरदर्शिनश्च नेतृत्वस्य एव अस्ति।
सोमवासरे, माध्यमैः सह संवादं कुर्वन् घोषः उक्तवान्—
“भारतम् अद्य अन्तार्राष्ट्रीयमञ्चे यया मर्यादया तथा प्रतिष्ठया उद्भासते, तत् सर्वं प्रधानमन्त्रिणः मोदीमहाभागस्य नेतृत्वसामर्थ्यस्य परिणामः। राष्ट्रस्य अर्थव्यवस्था निरन्तरं प्रगतिपथे सञ्चरति, तथा विश्वसमुदायः भारतस्य भूमिकां नूतनेन दृष्टिकोणेन पश्यति।”
भारतरूससम्बन्धानां विषये टिप्पणीं कुर्वन् सः उक्तवान् यत् उभयोः राष्ट्रयोः मैत्री ऐतिहासिकी अस्ति तथा कालेन सह अधिकं प्रगाढा जाता। घोषः अवदत्— “रूसदेशेन सह अस्माकं सम्बन्धः बहुवर्षेभ्यः प्राचीनः अस्ति। वर्तमानकाले सम्पन्नाः विविधाः संधयः उभयोरपि देशयोः हिताय सिद्धाः भविष्यन्ति तथा परस्परसहकार्यस्य नूतनां दिशां प्रदास्यन्ति।” दिलीपघोषः अपि उक्तवान् यत् वैश्विकस्तरे भारतस्य वर्धमाना प्रतिष्ठा, आर्थिकविकासः तथा कूटनीतिकसुदृढता केन्द्रसर्वकारस्य नीतिनां तथा प्रधानमन्त्रिणः नेतृत्वस्य प्रत्यक्षं फलम् एव अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani