Enter your Email Address to subscribe to our newsletters


जयपुरम्, 8 दिसंबरमासः (हि.स.)।
राजस्थानराजधान्यां जयपुरनगरे नारीशक्तेः साहसस्य संस्कारस्य संकल्पस्य च अद्वितीयः संगमः द्रष्टुं प्राप्तः। विन्जा बुक् ऑफ् वर्ल्ड् रेकॉर्ड्स तथा स्किल् शिक्षा इत्यनयोः संयुक्ताध्यवसायेन आयोजितः “अदम्यनारीरत्नसम्मानम्–२०२५” इति भव्यः समारोहः सीतापुरस्थिते PIET परिसरमध्ये सम्पन्नः। अस्य गरिमायुक्तस्य आयोजनस्य न केवलं नारीशक्तिसशक्तिकरणस्य नवपरिभाषा निवेशिता, अपि तु राजस्थानभूमौ प्रेरणायाः नूतनः अध्यायः लिखितः।
अस्य वर्षस्य समारोहस्य प्रमुखविशेषता आसीत् यत् भारतस्य विविधान् राज्येभ्यः आगत्य शिक्षासमाजसेवाकलाउद्यमितास्वास्थ्यसंस्कृतिनेतृत्वादिषु क्षेत्रेषु असाधारणं योगदानं दत्तवन्त्यः चत्वारिंशदधिकाः विशिष्टनार्यः उपस्थिताः आसन्, येभ्यः समाजः नूतनदिशां प्राप्तः।
समारोहस्य मुख्यातिथिः राजपूतकरणीसेनाया राष्ट्रियाध्यक्षः महिपालसिंहमकराणः आसीत्। सः स्वीयभाषणे नारीशक्तिं समाजस्य दृढतायाः प्रगतये च केन्द्रीभूतां शक्तिम् इति व्याख्यातवान्। सः अवदत् यत् एतादृशाः कार्यक्रमाः ताः नारीः याः समाजे प्रेरणादायिनी भूमिका निर्वहन्ति, तासां वास्तविकसम्मानं कुर्वन्ति, च अस्याः प्रारंभस्य परिणामः नूनं सकारात्मकपरिवर्तनं जनयिष्यति इति।
विशिष्टातिथि–सूच्यां महीपसिंहसोलङ्की कपिलशर्मा डॉ नूपुरजैन आञ्चलपुरी किशोरगिताला मेघराजसिंहराजावतः गवर्धनसिंहराजावतः शक्तिसिंहराजावतः च उल्लेखनीयाः उपस्थिताः। ऋतवंशफाउण्डेशन शक्तिसिंहएण्ड्ब्रदर्स् च एतत् आयोजनं सफलं कर्तुं प्रमुखं सक्रियं च योगदानं दत्तवन्तः। तेषां व्यवस्थापननिष्ठया अयं कार्यक्रमः उच्चतमस्तरं प्रापितः।
अतिरिक्ततया राकेशगुर्जर नितिनवर्मा (विन्जा बुक् ऑफ् वर्ल्ड् रेकॉर्ड्स् एवं स्किल् शिक्षा) च कार्यक्रमस्य सौष्ठवं संचालनं कृतवन्तौ। सम्मानार्थं समागता विशिष्टनार्यः पदकम् स्मृतिचिह्नं प्रमाणपत्रं च प्रदानेन अभिनन्दिताः।
समारोहस्य मूलसन्देशः—साहसः संस्कारः संकल्पः—एव अदम्यनारीणां परिचयः —इति सर्वत्र गुञ्जितः।
अन्ते जयपुरे आयोजितम् एतत् उत्सवम् नारीशक्तेः सम्मानस्य नूतनां दृष्टान्तं प्रकल्पितवान्।
---------------
हिन्दुस्थान समाचार