Enter your Email Address to subscribe to our newsletters

- जिला पंचायत सदस्येभ्यः अधिकारिभ्यः करिष्यते नामांकनं, पंच-सरपंचस्य रिक्त पदेभ्यः संबंधिततालुकासु संकलिष्यते प्रपत्रम्
भोपालम्, 08 दिसम्बरमासः (हि.स.)।मध्यप्रदेशस्य राज्यनिर्वाचनआयोगेन निर्गतस्य नगरीयनिकायानां त्रिस्तरीयपञ्चायतानां च उपनिर्वाचनकार्यक्रमस्य अनुसारं पञ्चायतीनाम् अवशिष्टेषु पदेषु निर्वाचनस्य कृते अद्य सोमवासरे अधिसूचना प्रकाश्यते। जिलापञ्चायतसदस्यस्य अवशिष्टे एकस्मिन्न् पदे नामांकनपत्राणि कलेक्टरकार्यालये ग्राह्याणि भविष्यन्ति। सरपञ्चपदेषु पञ्चपदेषु च अवशिष्टेषु निर्वाचनार्थं नामनिर्देशनपत्राणि स्वस्वविकासखण्डस्य तहसीलकार्यालयेषु समर्पयितुं शक्यन्ते।
राज्यनिर्वाचनआयोगस्य सचिवः दीपकसिंह इत्यनेन सूचितम् यत् उपनिर्वाचनार्थम् अधिसूचनाप्रकाशनात् आरभ्य अद्य सोमवासरात् एव नामनिर्देशनपत्रग्रहणक्रिया आरप्स्यते। नामनिर्देशनपत्राणि पञ्चदशदिसम्बरपर्यन्तं ग्राह्याणि भवन्ति। नामनिर्देशनपत्राणां परीक्षाणं षोडशदिसम्बरे भविष्यति। नामपरित्यागस्य अन्तिमतिथि अष्टादशदिसम्बरः। तस्मिन्नेव दिने निर्वाचनचिह्नानां वितरणं भविष्यति।
नगरीयनिकायेषु मतदानं एकोनत्रिंशद्दिसम्बरे प्रातः सप्तवादने आरभ्य सायं पञ्चवादनपर्यन्तं भविष्यति। मतगणना निर्वाचनपरिणामप्रकाशनं च एकत्रिंशद्दिसम्बरे प्रातः नववादनात् आरभ्य भविष्यति। पञ्चायतीनाम् मतदानं एकोनत्रिंशद्दिसम्बरे प्रातः सप्तवादनात् अपराह्णत्रिवादनपर्यन्तं भविष्यति। पञ्चपदस्य मतगणना मतदानसमापनानन्तरं तत्रैव मतदानकेन्द्रे भविष्यति। सरपञ्च जनपदपञ्चायतसदस्य जिलापञ्चायतसदस्याणां च मतगणना विकासखण्डमुख्यालये ई वी एम यन्त्रेण द्वितीयजनवरीदिने प्रातः अष्टवादनात् आरभ्य भविष्यति।
तस्मिन्नेव दिने सरपञ्च जनपदपञ्चायतसदस्ययोः परिणामप्रकाशनं भविष्यति। जिलापञ्चायतसदस्याणां पञ्चपदस्य च परिणामप्रकाशनं पञ्चजनवरी 2026 इति दिने प्रातः दशवादनत्रिंशन्मिनिटारभ्य भविष्यति। एकस्य अध्यक्षस्य अष्टानां पार्षदपदानां च उपनिर्वाचनम् सीधीजनपदे नगरपरिषद्मझौलीमध्ये अध्यक्षपदस्य तथा विविधेषु नगरीयनिकायेषु अष्टानां पार्षदपदनां कृते उपनिर्वाचनं भविष्यति।
नगरपालिकानिगमसिंगरौलीस्य चतुस्त्रिंशद्वार्डे, नगरपालिकापरिषद्मण्डलाया अष्टमे मतदानकेंद्रे, नगरपालिकापरिषद्लहारस्य पञ्चमे वार्डे, नगरपरिषद्मौ इत्यस्य चतुर्थे वार्डे, मेहगाँवस्य पञ्चमे वार्डे, आलमपुरस्य त्रयोदशे वार्डे, सतवासस्य नवमे वार्डे तथा पानसेमलस्य द्वितीये मतदानकेंद्रे पार्षदपदस्योपनिर्वाचनं भविष्यति।
जिलापञ्चायतस्य चत्वारि जनपदपञ्चायतस्य चतुर्दश सरपञ्चानां सप्तषष्टि च पञ्चानां च 3872 पदानां निर्वाचनम् पञ्चायत उपनिर्वाचनान्तर्गतं जिलापञ्चायतसदस्याणां चतुर्ण्णां, जनपदपञ्चायतसदस्याणां चतुर्दश, सरपञ्चानां सप्तषष्टि तथा पञ्चानां 3872 पदानां कृते निर्वाचनं भविष्यति।
Hindusthan Samachar / अंशु गुप्ता