Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 08 दिसम्बरमासः (हि. स.)। केन्द्रीयसंस्कृतिमन्त्री गजेन्द्रसिंहशेखावतः अवदत् यत् अस्माकं सांस्कृतिकनिक्षेपः केवलं शिलासु नास्ति, अपि तु सा सजीवा गम्भीरा अमूर्तरूपेण निहिता। नवदिल्लीस्थे लालकिले आयोजिते यूनेस्को अमूर्तसांस्कृतिकविरासतसंरक्षणाय अन्तःसर्वकारिसमितेः विंशतितमे अन्ताराष्ट्रियसभायाः उद्घाटनसमये सः एतत् अभाषत।
शेखावतः उक्तवान् यद्भारतदेशः सदा मन्यते यत् सांस्कृतिकविरासत् न केवलं स्मारकेषु अभिलेखेषु संग्रहालयेषु वा वर्तते, किन्तु सा जीविता अमूर्तधरोहराऽस्ति या अस्माकं दैनन्दिनजीवने परम्परायाम् कलासु च गाढं निहिता। एताः जीवितपरम्पराः रक्षितव्याः, येन आगामिन्यः पीढयः केवलं द्रव्यसम्पत्तिम् एव न, अपि तु एतां पारम्परिकां विश्वबुद्धिम् अपि लबेरन्।
मन्त्रिणा उक्तं यत् आगामिदिवसेषु सप्तदिनानि विश्वस्य प्रतिनिधयः नामनिर्दिष्टानां धरोहरप्रस्तावानां समीक्षा करिष्यन्ति, अमूर्तधरोहरसंरक्षणस्य भाविनीतिषु चर्चाः च भविष्यन्ति। अस्मिन् वर्षे भारतदेशेन दीपावलिं अमूर्तविरासत्स्वरूपेण नामनीतुम् आवेदनं कृतं, यस्य विषये समिति निर्णयं करिष्यति।
विदेशमन्त्री डा एस जयशङ्करः IGC सभायाः प्रतिनिधीन् स्वागतवान्। सः अवदत् यत् भारतः संस्थापकसदस्यरूपेण वैश्विकशान्तेः परस्परसमझस्य च संवर्धने सक्रियं योगदानं दत्तवान् अस्ति। सः उक्तवान्— एतां विरासतां पोषयाम तथा आगामिपीढिभ्यः समर्पयाम।
अस्मिन् अवसरे निमित्तं यूनेस्को महानिदेशकः डा खालिद अल एनानी देहलीमुख्यमन्त्री रेखागुप्ता च अन्यैः विविधदेशीयप्रतिनिधिभिः सह उपस्थिताः। एषा बैठकाः सप्तदिनपर्यन्तं प्रवर्तिष्यते, यस्मिन् विश्वस्य अमूर्तसांस्कृतिकविरासत्सम्बद्धाः महत्वपूर्णनिर्णयाः गृहीताः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता