मनरेगा-अवशेषऋणस्य विषयेन संसदपरिसरे टीएमसी-सांसदाः विरोधप्रदर्शनम् अकुर्वन्
नवदेहली, ०८ दिसम्बरमासः (हि.स.)। मनरेगासम्बद्धेषु अवशेषऋणेषु विषये तृणमूल्-काँग्रेस्सांसदाः अद्य शीतकालीनसत्रस्य द्वितीय-सप्ताहस्य प्रथमदिने कार्यवाही-आरम्भात् पूर्वं संसदभवनपरिसरे विरोधप्रदर्शनम् अकुर्वन्। एतत् प्रदर्शनं पश्चिमबङ्गालस्य केन्द्रसर्
संसद भवन के बाहर विरोध करते टीएमसी सांसद


नवदेहली, ०८ दिसम्बरमासः (हि.स.)। मनरेगासम्बद्धेषु अवशेषऋणेषु विषये तृणमूल्-काँग्रेस्सांसदाः अद्य शीतकालीनसत्रस्य द्वितीय-सप्ताहस्य प्रथमदिने कार्यवाही-आरम्भात् पूर्वं संसदभवनपरिसरे विरोधप्रदर्शनम् अकुर्वन्। एतत् प्रदर्शनं पश्चिमबङ्गालस्य केन्द्रसर्वकारात् प्राप्तव्या अवशेषऋण-राशेः प्राप्त्यर्थं कृतम्।

प्रदर्शने सांसदाः— काकोली घोष् दस्तीदार, महुआ मोइत्रा, सौगात् रॉय, सताब्दी रॉय, प्रतिमा मण्डल, रचना बनर्जी, सायोनी घोष्, डेरिक् ओ’ब्रायन, डोला सेन, कीर्ति आजाद, असीत् कुमार इत्येते च अन्ये बहवः सासदाः तख्ती-फलकादीन् हस्ते धृतवन्तः आसन्। तख्तिषु लिखिताः आसन्— “मनरेगा ५२-अरब-रूप्यकाणि अवशेषम्”, “भाजपा ज्ञात्वा बङ्गालं वञ्चयति”, “चत्वारि लक्षाणि स्वरा एकः प्रश्नः— अस्माकं धनं कुत्र?”, “५००-दिवसकर्मणः २०,०००-कोटिरूप्यकाणि अवशेषम्”, “२००-दिवसकर्मणः ६२०-कोटिरूप्यकाणि अवशेषम्”, “भाजपा राजनीतिकप्रतिशोधभावनया बङ्गालस्य दरिद्रान् दण्डयति” इत्यादयः घोषेसु लिखिताः।

संसदः शीतकालीनसत्रम् ०१-दिसम्बरादारब्धम् अस्ति। विपक्षः प्रतिदिनं सत्रारम्भात् एकं होरां पूर्वं प्रातः-दशवादने देशस्य विविधानि विषयानि विषयीकृत्य संसद्-परिसरस्य बहिः विरोधं कुर्वन् अस्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani