‘तेलंगाना राइजिंग ग्लोबल समिट्’ आरब्धः, राज्यपालेन उद्घाटितः।
हैदराबाद:, 8 दिसम्बरमासः (हि.स.)। प्रदेशसर्वकारस्य द्विदिवसीयः ‘तेलंगाना राइजिंग ग्लोबल समिट्’ नामकः सम्मेलनः अद्य आरब्धः। तस्य उद्घाटनं सोमवासरे राज्यपालः जिष्णुदेववर्मा महोदयः कृतवान्। अस्मिन् सम्मेलने केन्द्रीयमन्त्री जी. किशनरेड्डी, मुख्यमन्त्र
तेलंगाना राइजिंग ग्लोबल समिट’ 1


राज्य 2


हैदराबाद:, 8 दिसम्बरमासः (हि.स.)। प्रदेशसर्वकारस्य द्विदिवसीयः ‘तेलंगाना राइजिंग ग्लोबल समिट्’ नामकः सम्मेलनः अद्य आरब्धः। तस्य उद्घाटनं सोमवासरे राज्यपालः जिष्णुदेववर्मा महोदयः कृतवान्। अस्मिन् सम्मेलने केन्द्रीयमन्त्री जी. किशनरेड्डी, मुख्यमन्त्री रेवन्तरेड्डी, उपमुख्यमन्त्री भट्टीविक्रमार्कः, अनेके राज्यमन्त्रिणः, जनप्रतिनिधयः, प्रसिद्धः चलचित्र-अभिनेता नागार्जुनः, तथा विविधसंस्थाभ्यः प्रतिनिधयः च सहभागिनः अभवन्। एषः सम्मेलनः रंगारेड्डीमण्डले कंडुकुरस्थाने स्थितायां ‘फ्यूचर्-सिटी’ नामके नगरीयपरियोजनायां शताधिक-एकरप्रदेशे आयोज्यते।

सम्मेलनस्य आरम्भात् पूर्वं मुख्यमन्त्री रेवन्तरेड्डी ‘फ्यूचर्-सिटी’ आगत्य विविधप्रदर्शनस्थलान् (स्टॉल्स्) निरीक्षितवान्। सः अधिकारिभ्यः भिन्न-भिन्नविषयेषु अनेकान् विचारान् दत्तवान्। मुख्यमन्त्रिणा ‘तेलंगाना-थल्ली’ (माता) इति नाम्ना प्रसिद्धडिजिटलमूर्तेः अनावरणं कृतम्। अस्मिन् सम्मेलने चतुश्चत्वारिंशत्-देशेभ्यः आगताः शतचतुश्पञ्चाशत् प्रतिनिधयः सहभागीनः अभवन्। सम्मेलनकालीन-आवासस्थलेषु, यत्र अतिथयः विश्रामगृहेषु निवासं करिष्यन्ति , तत्र कठोरसुरक्षाव्यवस्था कृता अस्ति। सम्पर्कनियन्त्रणकक्षेण (कमाण्ड्-कण्ट्रोल्) सह समन्वयाय विशेष-अधिकरिणः नियुक्ताः सन्ति। विशाल-उद्योगपतिभ्यः विशेषसुरक्षा प्रदत्ता अस्ति। मुख्यमण्डपे, यं ‘मेन-हॉल्’ इति कथ्यते, द्विसहस्र-अतिथीनां उपवेशनव्यवस्था कृता अस्ति।

अखिलभारतीयकांग्रेससमितेः अध्यक्षः मल्लिकार्जुनखड्गे तथा कांग्रेसनेतृका सोनियागान्धीमहोदया तेलंगानासर्वकारस्य द्विदिवसीय- ‘तेलंगाना राइजिंग ग्लोबल समिट्’ इति सम्मेलनस्य सफलतां कामयमाने स्तः, तथा आशां व्यक्तवत्यौ यत् एषः आयोजनः राज्यस्य दीर्घकालिकदृष्टिकोणे महत्त्वपूर्णं योगदानं करिष्यति। मुख्यमन्त्री रेवन्तरेड्डीमहाभागाय लिखिते पत्रे खड्गे अवदत् यत् राज्येन समावेशीविकासस्य, नवोन्मेषस्य तथा वैश्विकसम्पर्कस्य उद्देश्येन दूरदर्शीकार्यसूची अग्रे नीयते इति दृष्ट्वा हर्षः जायते। तेन विश्वासः अपि व्यक्तः यत् तेलंगानाराज्यं वैश्विकनिवेशकेन्द्ररूपेण तथा नगरीय-आधारभूतसंरचना एवं प्रौद्योगिकीक्षेत्रे नवोन्मेषकेन्द्ररूपेण निरन्तरं विकासं करिष्यति। स्वपत्रे तेन सम्मेलननिमन्त्रणाय मुख्यमन्त्रिणे कृतज्ञता अपि प्रकाशिताः। तथापि संसद्-अधिवेशनस्य कारणात् व्यक्तिगतरूपेण कार्यक्रमे उपस्थितुं स्वस्य असमर्थतां सूचितवान्।

हिन्दुस्थान समाचार / Dheeraj Maithani