उत्तरे प्रदेशस्य नामाङ्कितापरिचयभूता भवन्ति— उत्तमजलव्यवस्थापनयुक्तानि हरित-आवरणसमन्वितानि आवासीय-क्षेत्राणि
प्रदेशे योगिनः आदित्यनाथस्य सर्वकारः अधिक-समावेशक-आवासीय-क्षेत्राणां विकासाय मार्गमानचित्रं सन्निर्मातुं सज्जतां करोति।” लखनऊनगरम्,08 दिसंबरमासः (हि.स.)। उत्तरप्रदेशं उत्तमप्रदेशरूपेण निर्मातुं प्रयत्नशीलस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य सर्व
बेहतर जल प्रबंधन


प्रदेशे योगिनः आदित्यनाथस्य सर्वकारः अधिक-समावेशक-आवासीय-क्षेत्राणां विकासाय मार्गमानचित्रं सन्निर्मातुं सज्जतां करोति।”

लखनऊनगरम्,08 दिसंबरमासः (हि.स.)। उत्तरप्रदेशं उत्तमप्रदेशरूपेण निर्मातुं प्रयत्नशीलस्य मुख्यमन्त्रिणः योगिनः आदित्यनाथस्य सर्वकारः विजन्–२०४७ इत्यस्य अधीनं विस्तीर्णकार्ययोजनां प्रति कार्यं करोति। प्रदेशस्य नगरीयवासक्षेत्राणि स्वच्छानि, सुरक्षितानि, हरितानि, जलवायु-अनुकूलानि च कर्तुं दिशि मार्गमानचित्रस्य निर्माणं क्रियते। अस्याः योजनायाः अधीनं प्रदेशस्य नगरीयक्षेत्रेषु वस्ती जलवायु–पर्यावरण–समावेशक-स्वरूपे प्रदातुं रणनीतौ कर्म प्रवर्तते, येन साधारण-नागरिकेभ्यः उत्तमजीवनस्तरः, विशुद्धवायुः, सुरक्षित-जलापूर्ति, स्वच्छ-पर्यावरणं च प्रदेयम् भवेत्।

प्रदेश–सर्वकारस्य अभिप्रायः शहरी-विकासं केवलं मार्ग–भवननिर्माणपर्यन्तं न नयित्वा, अपि तु पर्यावरण–सन्तुलनं जनस्वास्थ्यं च तस्य सह सम्बन्धितुं कर्तुम् अस्ति। एषा सम्पूर्ण–कार्ययोजना द्वाभ्यां मुख्याधाराभ्यां केन्द्रीकृता— प्रथमः, जलवायु–सहिष्णुहरित-अवसंरचनाया विस्तारः, द्वितीयः च जलसुरक्षा–पारिस्थितिकीयसन्तुलनस्य सुदृढीकरणम्। एताभ्यामेव द्वाभ्यां स्तम्भाभ्यां माध्यमेन प्रदेशस्य शहरी–आवासीय–क्षेत्राणां विस्तीर्णः कायाकल्पः करिष्यते।

हरित-अवसंरचनया सुरक्षित–स्वस्थ–आवासीय–क्षेत्र-विकासः

मुख्यमन्त्री योगिनः आदित्यनाथस्य सर्वकारः प्रदेशस्य नगरीय–क्षेत्राणि भविष्यस्य आवश्यकतानुसारं विकसितुं संलग्नः अस्ति। योजनानुसारम् प्रतिनगरं सिटी–सेन्ट्रिक–क्लाइमेट–एक्शन–प्लान् इति निर्माणः क्रियते। अनेन वर्षा, तापमानम्, जलभरावः, वायु–प्रदूषणम्, कार्बन–उत्सर्जनम् इत्यादीनां स्थानीयजलवायुसङ्कटानां मूल्यांकनं कृत्वा तेषाम् समाधानानां क्रियान्वयनं करिष्यते।

बह्वायामिक-स्तरे योजनानां क्रियान्वयनस्य सज्जता

कार्ययोजनानुसारं नगरीय–हरित–आवरणस्य विषयेषु बहुप्रकाराः पहलाः महदायामेन कार्यरूपेण स्थापयिष्यन्ते। अस्य अधीनं नगरेषु उपवनेषु, हरित–पट्टिषु, हरित–वीथीषु, मुक्तहरितक्षेत्रेषु च विकासः करिष्यते, येन आवासीय–प्रदेशेषु शुद्धवायु–पूर्ति, तापमान–सन्तुलनं, पर्यावरणीय–आरोग्यं च उत्तमं भवेत्। साथमेव मोहल्ला–स्तरे जलवायु–नियोजनस्य क्रियान्वयनं करिष्यते, येन जलभरावः, पूरः, अत्यधिक–ऊष्मा, प्रदूषणम् इत्यादयः स्थानीय–समस्याः नियमित–निरीक्षणेन रियल–टाइम–योजनया नियंत्रितुं शक्येरन्।

जलसुरक्षास्वच्छतायाश्च स्थायी–आधारः

अस्याः योजनायाः द्वितीयं मुख्य–ध्येयम् अस्ति जल–सुरक्षां पारिस्थितिकीय–सतततां च सुदृढीकर्तुम्। अस्याः अनुसारं नगराणां सरांसि, झीलाः, जलाशयाः च पुनरुद्धर्तुं योजनाः क्रियासु स्थापिष्यन्ते, येन वर्षपर्यन्तं जल–उपलब्धता सुनिश्चितुं शक्येत्। वर्षा–जल–सञ्चयनं प्रतिआवासीय–क्षेत्रे विशेषरूपेण प्रोत्साह्यते, येन भूजल–स्तरे परिष्कारः सिध्येत्।

विकेन्द्रित–अपशिष्टप्रबन्धन–व्यवस्था

राज्य–सर्वकारस्य प्रवक्तारः अवदत् यत् प्रदेशस्य नगरीय–क्षेत्रेषु अवकर–निस्तारणार्थं विकेन्द्रित-अपशिष्ट–प्रबन्धन–प्रणालीस्य विकासः केन्द्रितः अस्ति। कार्ययोजनानुसारं वस्ती–स्तरे अवकरस्य पृथक्करणम्, प्रसंस्करणम्, निस्तारणम् च स्थापितुं व्यवस्था भविष्यति, येन स्वच्छता स्थायित्वं प्राप्स्यति, पर्यावरण–संरक्षणं बलवत्तरं भविष्यति, प्रदूषणं च व्यापक–स्तरे न्यूनं भविष्यति। प्रदेशस्य योगिनः आदित्यनाथस्य सर्वकारस्य मतम् यत् एतेषां सर्वेषां योजनानां प्रभावी–क्रियान्वयनेन उत्तरप्रदेशस्य नगरीय–आवासीयक्षेत्राणि न केवलं पर्यावरण–अनुकूलानि भविष्यन्ति, अपि तु भावीपीढीभ्यः स्वस्थसुरक्षित–स्वच्छजीवनस्य दृढभूमिं स्थापयिष्यन्ति, यत् अन्येषां राज्येषां कृते अपि आदर्शरूपे भवितुम् अर्हति।

हिन्दुस्थान समाचार / अंशु गुप्ता