अमेरिकातः सुरक्षाप्रत्याभूतिषु सीमाविषयेषु च अद्यापि असहमति - ज़ेलेन्स्की
लन्दनम्, ०८ दिसंबरमासः (हि.स.)। यूक्रेनदेशस्य राष्ट्रपतिः वोलोदिमीर् ज़ेलेन्स्की अवदत् यत् वाशिङ्ग्टनसहितं शान्तियोजनां प्रति प्रवृत्तेषु चर्चासु अद्यापि कतिचन मुख्यविषयाः अनिर्णीताः सन्ति। डाउनिङ्ग्-स्ट्रीट् प्रति गच्छन् सन् सः अवदत् यत् अमेरिकीयप
अमेरिकातः सुरक्षाप्रत्याभूतिषु सीमाविषयेषु च अद्यापि असहमति - ज़ेलेन्स्की


लन्दनम्, ०८ दिसंबरमासः (हि.स.)। यूक्रेनदेशस्य राष्ट्रपतिः वोलोदिमीर् ज़ेलेन्स्की अवदत् यत् वाशिङ्ग्टनसहितं शान्तियोजनां प्रति प्रवृत्तेषु चर्चासु अद्यापि कतिचन मुख्यविषयाः अनिर्णीताः सन्ति। डाउनिङ्ग्-स्ट्रीट् प्रति गच्छन् सन् सः अवदत् यत् अमेरिकीयप्रस्तावे निर्दिष्टेषु “संवेदनशीलबिन्दुषु” अधिका चर्चा अपेक्ष्यते, यत्र सुरक्षाप्रत्याभूतिभ्यः आरभ्य पूर्वयूक्रेनप्रदेशस्य नियन्त्रणम् अपि मुख्यतया समाविष्टम्।

ज़ेलेन्स्की उक्तवान् यत् डोन्बास्-प्रदेशस्य—यत्र डोनेत्स्क् लुहांस्क् च अन्तर्भवतः—भविष्ये विषये यूक्रेन-अमेरिकारूसदेशानां दृष्टयः अद्यापि समानाः न सन्ति। तेन अभिहितम् “एतेषां त्रयाणां राष्ट्राणां दृष्टिकोनाः भिन्नाः सन्ति तथा च डोन्बास्-विषये सामूहिकः निर्णयः नाभवत्” इति।

अस्य कथनस्य अनन्तरं सः पुनरुक्तवान् यत् कीवनगरं स्वपश्चिममित्रैः, विशेषतः अमेरिकासहितम्, पृथग्-प्रकारस्य सुरक्षाप्रत्याभूतिव्यवस्था इच्छति। तेन पृष्टम्— “यदि रूसः पुनरपि युद्धम् आरभेत्, तर्हि अस्माकं सहयोगिनः किं करिष्यन्ति?” इति प्रत्येकस्य यूक्रेनीजनस्य एकमेव प्रश्नम् अस्ति।

राष्ट्रपतिः अपि अवदत् यत् सुरक्षाप्रत्याभूतिव्यवस्थायाः महत्त्वपूर्णः अंशः यूरोपदेशैः सम्बद्धः अस्ति, अतः यूक्रेनस्य सम्भाव्य-ईयू-सदस्यताविषये यूरोपीयराष्ट्रैः सह गम्भीरा वार्ता अपेक्ष्यते। तेन एतदपि सूचितं यत् सः अमेरिकायात्रायै सिद्धः अस्ति। ज़ेलेन्स्की अवदत् “यदि अमेरिकीयराष्ट्रपतिः सिद्धः भवेत्, तर्हि अहं तत्क्षणमेव तत्र गन्तुं सिद्धः अस्मि।”

हिन्दुस्थान समाचार / अंशु गुप्ता