Enter your Email Address to subscribe to our newsletters


गोरखपुरम्, 8 दिसंबरमासः (हि.स.)।
उत्तरप्रदेशस्य गोरखपुरजनपदे पक्कीबागस्थितस्य सरस्वतीशिशुमन्दिरस्य त्रिदिवसीयवार्षिकोद्योगः अद्य आरब्धः। तस्य निमित्तं हरैयाबस्तिस्थितस्य सरस्वतीशिशुमन्दिरस्य प्रधानाचार्यः भगवानसिंहस्य नेतृत्वे एका समीक्षण-टीम आगता अस्ति।
अस्मिन् दले रामबागबस्तिस्थितसरस्वतीविद्यामन्दिरात् रविकुलरत्नपाण्डेयः (भौतिकीप्रवक्ता), आशीषसिंहः (हिन्दीप्रवक्ता), अरुणसिंहः (गणितटीजीटी), अंशुमानः (अंग्लभाषाप्रवक्ता), प्रदीपरसडा-प्रदेशात् पुरुषोत्तमः, सन्तकबीरनगरात् शुभेन्दुपाठकः च सम्मिलिताः सन्ति।
विद्यालयस्य प्रधानाचार्यः डॉ राजेशसिंहः दलस्य स्वागतं कृतवान्। अस्मिन्नवसरे विद्यालयस्य कोषाध्यक्षः महेशअग्रवालः, प्रान्तीयकार्यालयप्रमुखः दिलीपश्रीवास्तवः, विद्यालयस्य प्रथमसहायिका रुक्मिण्युपाध्यायः सहितः समस्तविद्यालयपरिवारः उपस्थितः आसीत्।
---------------
हिन्दुस्थान समाचार