अवैध खननस्य विरुद्धं प्रदेशव्यापी अभियानं तीव्रम्
लखनऊ, 08 दिसंबरमासः (हि.स.)। भूतत्त्वखनिः कर्मविभागस्य विशेषप्रवर्तनअभियानस्य समीक्षा कृत्वा सचिवा निर्देशक च मालाश्रीवास्तवा अन्तरराज्यसीमान्तजनपदानि प्रति कठोरं स्पष्टं च निर्देशं दत्तवन्ती।अन्यराज्येभ्यः उपखनिजानां परिवहनं केवलम् आईएसटीपीयुक्तं
मुख्यमंत्री योगी


लखनऊ, 08 दिसंबरमासः (हि.स.)। भूतत्त्वखनिः कर्मविभागस्य विशेषप्रवर्तनअभियानस्य समीक्षा कृत्वा सचिवा निर्देशक च मालाश्रीवास्तवा अन्तरराज्यसीमान्तजनपदानि प्रति कठोरं स्पष्टं च निर्देशं दत्तवन्ती।अन्यराज्येभ्यः उपखनिजानां परिवहनं केवलम् आईएसटीपीयुक्तं एव सुनिश्चितं कर्तव्यमिति सा अवदत्।

सा संबंधितविभागीयअधिकारिणः आदिशत् यत् कस्यापि प्रकारेण अतिभारवाहनं न भवेत्। भारनियमानां पूर्णपालनं करव्यमिति च उक्तवती।तथा शासनस्य मंशानुरूपं कठोरं सततं प्रभाव्यं च प्रवर्तनमेव विभागस्य परं प्राधान्यम् इति निर्देशितवती।

अभिहितं च यत् प्रदेशे अवैधखननम् अवैधपरिवहनं च अतिभारप्रवाहनं च नियंत्रयितुं भूतत्त्वखनि कर्मविभागेन यत् विशेषाभियानं प्रवर्त्यते तस्मिन् गतत्रिदिनेभ्यः पञ्चसहस्राधिकानां उपखनिजवाहनानां परीक्षा कृता। परीक्षायां अधिकांशवाहनानि आवश्यकपरिवहनपत्रैः सहितानि दृष्टानि।

सम्भृतभारमानलङ्घनं यत्र यत्र प्राप्तं तत्र प्रायेण चतुर्षुशतमधिकेषु वाहनिषु कठोरकार्यवाही कृताऽस्ति तथा च एकस्मिन् दशांशे ऽधिकं कोट्याः पञ्चाधिका लक्ष्यराशिः अर्थदण्डरूपेण अधिरोपिता। अभियानकाले सप्त एफआईआरपि लेखिता।

सोनभद्रे च चतुश्चत्वारिंशत् वाहनानि, मीरजापुरी त्रयोविंशत्, जालौने द्वात्रिंशत्, बलियायां एकविंशत्, गोरखपुरे पञ्चदश, अन्येषु जनपदेषु तु द्विपञ्चाशत् एवं समग्रेण प्रायेण चतुर्णां शतानां वाहनानां विरुद्धं नियमानुसारं दण्डः आरोपितः।

अपरनिदेशकः अरुणकुमारः सर्वाणि दलानि प्रति आदेशं दत्तवान् यत् अवैधखननपरिवहनयोः प्रवर्तनं प्रभाव्यं कठोरं च निरन्तरं च भवेत्, कस्यामपि स्थित्यां शैथिल्यं न सह्यं भवेत्।

हिन्दुस्थान समाचार