Enter your Email Address to subscribe to our newsletters

समस्याम्आनीय42 तः अधिकाः प्राप्नुवन्, मुख्यमंत्री योगी आदित्यनाथः एकैकस्य अशृणोत् समस्याः
लखनऊ, 8 दिसंबरमासः (हि.स.)। मुख्यमन्त्री योगी आदित्यनाथः स्वव्यस्ततामध्यपि सोमवासरे जनतादर्शनम् अकरोत्।स्वीयान् निवेदनानि वहन्तः ये नागरिकाः जनतादर्शनम् आगतवन्तः, तान् सर्वान् योगीस्वामी स्वयम् मिलित्वा तेषां समस्याः अशृणोत्, समाधानाय च अधिकारिणः निर्देशितवान्।मुख्यमन्त्रिणा उक्तम्—“यूयं सर्वे निश्चिन्ताः भूत्वा गृहं गच्छन्तु। सर्वासां समस्याः यथोचितं समाधानम् प्राप्स्यन्ति।”
जनतादर्शने द्विचत्वारिंशत् (४२) जनाः स्वदुःखानि निवेदयितुं आगताः।तेषु पञ्चजनाः उपचारार्थं आर्थिकसाहाय्यम् इच्छन्तः, मुख्यमन्त्रिणे प्रार्थनापत्रं दत्तवन्तः।एतेषां विषये मुख्यमंत्री अवदत् यत् चिकित्सालयेन व्ययमानम् अनुमानपत्रं निर्माप्यतामिति।
मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् “सर्वकारा आद्यदिनादेव चिकित्सार्थं आर्थिकसहाय्यं दत्तुं तत्परा। धनाभावे कस्यापि उपचारः न अवरुध्येत। यस्मै कस्मै च प्रदेशीयनागरिकाय उपचारार्थं धने साहाय्यस्य आवश्यकता भवति, सरकार सदा तस्य पृष्ठतः स्थितवती भविष्यति।”
अनेके जनाः पुलिससम्बद्धाः, अवैधकब्जसम्बद्धाश्च शिकायताः कृत्वा अपि उपस्थिताः।मुख्यमन्त्री योगी सर्वेषां प्रार्थनापत्राणि गृहित्वा आदेशं दत्तवान् यज् “जनसामान्यस्य समस्याः प्राथमिकतया निवारणीयाः। तदनन्तरं शिकायतकर्तृभ्यः अभिप्रायोऽपि ग्रहीतव्यः।”ते अवदन्—सर्वकारः प्रत्येकं पीडितस्य समस्यासमाधाने प्रतिबद्धा।
गृहयोजनायाः लाभं वाञ्छन्तः केचन जनाः अपि योगिस्वामिनं निवेदयामासुः।तत् श्रुत्वा मुख्यमन्त्रिणा विचारपूर्वकं अधिकारियों प्रति आदेशः दत्तः यत्पीएम/सीएम आवासयोजनायाः लाभः तेषु आवश्यकतावन्तेषु प्रदत्तो भवेत्।-----------
हिन्दुस्थान समाचार