छत्तीसगढस्य शिल्पकारिणी हीराबाई झरेका बघेल राष्ट्रिय-हस्तशिल्पपुरस्कारेन सम्मानिता
भव्यसमारोहे राष्ट्रपतिः मुर्मुः प्रदत्तवती पुरस्कारम् रायपुरम्, 09 दिसंबरमासः (हि.स.)। छत्तीसगढ़स्य प्रख्यात-शिल्पकारिणी हीराबाई झरेका बघेल धातु-कलाक्षेत्रे उत्कृष्टं योगदानं प्रदर्श्य राष्ट्रीय-हस्तशिल्प-पुरस्कारेण सम्मानिता अभवत्। एषः सम्मानः
राष्ट्रपति मुर्मु हीराबाई झरेका बघेल काे राष्ट्रीय हस्तशिल्प पुरस्कार से सम्मानित करती हुई


भव्यसमारोहे राष्ट्रपतिः मुर्मुः प्रदत्तवती पुरस्कारम्

रायपुरम्, 09 दिसंबरमासः (हि.स.)। छत्तीसगढ़स्य प्रख्यात-शिल्पकारिणी हीराबाई झरेका बघेल धातु-कलाक्षेत्रे उत्कृष्टं योगदानं प्रदर्श्य राष्ट्रीय-हस्तशिल्प-पुरस्कारेण सम्मानिता अभवत्। एषः सम्मानः तस्यै अद्य मंगलवासरे नवी-दिल्लीस्थिते विज्ञान-भवने आयोजिते भव्ये समारे राष्ट्रपतिना द्रौपदी मुर्मु इत्यनेन प्रदत्तः। समारे देशस्य सर्वतः चयनितानां विविध-कलाविधानां श्रेष्ठ-शिल्पकाराः सम्मानिताः, तेषु छत्तीसगढ़स्यैव हीराबाई झरेका बघेल अपि सम्मानिता। एषः सम्मानः छत्तीसगढ़-प्रदेशस्य हेतु गर्वस्य क्षणः जातः। धातु-कले तस्याः नवोन्मेषाः, पारम्परिक-शैली-रक्षणे प्रयासः, असाधारण-कारीगरी च सर्वथा राष्ट्रे प्रशंसिताः।

राष्ट्रपतिः पुरस्कारं प्रददात् उक्तवती यत्— भारतीय-हस्तशिल्पस्य विशेषता अस्याः विविधता-परम्परा च। एवं प्रतिभाशालिनः शिल्पकाराः एतां विरासतां भाविनः पीढीनां प्रति संवहनाय अत्यन्तं महत्त्वपूर्णं कार्यं कुर्वन्ति। बघेल-श्रीमत्याः एतेन सम्माननेन छत्तीसगढ़स्य लोक-कला तथा पारम्परिक-धातुकला राष्ट्रीय-स्तरे नवीनाम् अभिज्ञानं प्राप्तवती। आगामिदिवसेषु तस्याः कार्याणि राष्ट्रीय-शिल्प-मेलासु प्रदर्शनीयानि भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता