लुम्बिन्यां भारत–नेपालयोः सांस्कृतिक महोत्सवस्य तृतीय संस्करणम् आयोजितम्
काठमांडूः, 9 दिसंबरमासः (हि.स.)। नेपालस्थितभारतीयदूतावासेन लुम्बिनीविकासकोषस्य लुम्बिनीबौद्धविश्वविद्यालयस्य च सहयोगेन भारतनेपालसांस्कृतिकमहोत्सवस्य तृतीयंसंस्करणं आयोजितम्। अस्मिन् महोत्सवे भारतनेपालयोः समृद्धं सांस्कृतिकवारसं परम्परांश्च उत्सव
लुंबिनी में आयोजित नेपाल भारत सांस्कृतिक महोत्सव की एक झलक


काठमांडूः, 9 दिसंबरमासः (हि.स.)।

नेपालस्थितभारतीयदूतावासेन लुम्बिनीविकासकोषस्य लुम्बिनीबौद्धविश्वविद्यालयस्य च सहयोगेन भारतनेपालसांस्कृतिकमहोत्सवस्य तृतीयंसंस्करणं आयोजितम्। अस्मिन् महोत्सवे भारतनेपालयोः समृद्धं सांस्कृतिकवारसं परम्परांश्च उत्सवेन आचरितम्, विशेषतः बौद्धसभ्यतायाः केन्द्रितानि कार्यक्रमाणि समाविष्टानि आसन्।

कार्यक्रमस्य संयुक्तमुद्घाटनं लुम्बिनीप्रदेशस्य राज्यपालेन कृष्णबहादुरघर्तिना, भारतसरकारस्य विदेशमन्त्रालयस्य उत्तरभारते अतिरिक्तसचिवेन मनुमहावरेण, लुम्बिनीविकासकोषस्य उपाध्यक्षेन डॉक्टर ल्हार्क्याललामेन, नेपालस्थितभारतीयदूतावासस्य उपमिशनप्रमुखेन डॉ राकेशपाण्डेयेन च कृतम्। समारोहेस्मिन् नागरिकसमाजस्य सदस्याः, शिक्षाविदः, वरिष्ठभिक्षवः, लुम्बिनीविकासकोषस्य सदस्याश्च उत्साहपूर्णं उपस्थिताः आसन्।

महोत्सवे सांस्कृतिककार्यक्रमाणि अपि प्रस्तुता अभवन्, यत्र भारतनेपालदेशयोः प्रतिष्ठितकलाकाराः नृत्यगीतादिकं प्रदर्शितवन्तः। षड्सदस्ययुक्तस्य आई सी सी आर दलस्य नायिकया संध्या कुंजनमेनन्दास्या नेतृत्वे बौद्धविषयाधारितं ओडिसीनृत्यं प्रस्तुतम्। अतिरिक्तरूपेण नेपालीमण्डलेन ‘घुगु मुगु’ इति नाम्ना पारम्परिकसंगीतप्रस्तुतिः अपि दत्ता।

अस्य महोत्सवस्य अन्तर्गते गतसोमवारे पूर्वाह्णे लुम्बिनीबौद्धविश्वविद्यालये “भारतनेपालबौद्धविरासत एकसाझाधरोहर” इति शीर्षकेन शैक्षणिकसंगोष्ठी अपि आयोजिताऽभूत्। तस्मिन् भारतनेपालयोः प्रख्यातबौद्धविद्वांसः सहभागिनो बभूवुः तथा ते बौद्धविरासतस्य महत्त्वं प्रति स्वमतानि प्रकाशयामासुः।

वक्तारः अस्याः सहवर्तिनिक्षेपं भूमिं विवृण्वन्तः उक्तवन्तः यत् सा उभयदेशयोः सांस्कृतिकसम्बन्धान् सुदृढीकरोति, जनस्तरीयसंपर्कं च वर्धयति इति। अस्मिन् कार्यक्रमे उभयदेशयोः गाढाः सांस्कृतिकऐतिहासिकसम्बन्धाः पुनः प्रतिपादिताः।

---------------

हिन्दुस्थान समाचार