“देशः रोहिङ्ग्या , बाङ्ग्लादेशीयानां नास्ति, एस्-आइ-आर् अनिवार्यम्” — इति संजयः जयसवालः।
नवदेहली, 09 दिसम्बरमासः (हि.स.)। लोकसभायां निर्वाचन-परिष्कार विषये चर्चायाः आरम्भे सत्ता-पक्षस्य प्रतिनिधिरूपेण पश्चिमचम्पारणात् भारतीयजनतापक्षस्य सदस्यः संजय-जयसवालः भाषितवान्। स उक्तवान्— “अयं देशः रोहिङ्ग्यजनानां बाङ्ग्लादेशीयानां वा नास्ति; अतः
“देशः रोहिङ्ग्या , बाङ्ग्लादेशीयानां नास्ति, एस्-आइ-आर् अनिवार्यम्” — इति संजयः जयसवालः।


नवदेहली, 09 दिसम्बरमासः (हि.स.)। लोकसभायां निर्वाचन-परिष्कार विषये चर्चायाः आरम्भे सत्ता-पक्षस्य प्रतिनिधिरूपेण पश्चिमचम्पारणात् भारतीयजनतापक्षस्य सदस्यः संजय-जयसवालः भाषितवान्। स उक्तवान्— “अयं देशः रोहिङ्ग्यजनानां बाङ्ग्लादेशीयानां वा नास्ति; अतः देशे एस्-आइ-आर् प्रक्रियायाः आवश्यक्ता विद्यते।” मतदाता-सूच्याः अद्यतनकरणं यत् एस्-आइ-आर्—तस्य समर्थनं कृत्वा स अवदत्— “बिहारराज्ये पञ्चत्रिंशल्लक्षलोकाः प्रपत्राणि नापूरयन्, अस्य अर्थः यत् तत्र बहवः अवैध प्रवेशिनः आसन्।”

जयसवालः एकराष्ट्र-एकनिर्वाचनम् इति अभियानस्यापि स्वागतं कृतवान्। सोऽब्रवीत्— “विपक्षीयाः यद्यपि वदन्ति, तथापि अस्य लाभः भारतीयजनतापक्षाय न भविष्यति। पृथक्-पृथक् निर्वाचनकाले एव अस्माकं लाभः भवति, येन सर्वं संगठनं विजयां सुनिश्चितुं प्रवृत्तम् भवति।” स अवदत्— “अस्माकं गृहमन्त्री अद्यापि विदेशं न गतः, प्रधानमन्त्रिणा च एकोऽपि विश्रान्तिदिवसः न स्वीकृतः। वयं निर्वाचनकाले समग्रशक्त्या कार्यं कुर्मः, विपक्षनेतारस्तु अवकाशान् भुङ्क्ते।”

तथैव स उक्तवान्— “बिहारनिर्वाचने विंशतिवर्षीयं एन्-डी-ए शासनम् अपासयितुं कांग्रेसदलेन एकोऽपि विषयः न प्राप्तः; ते केवलं एस्-आइ-आर् विषयमेव मुद्दुरूपेण प्रतिपादितवन्तः। एतादृशे संशयपूर्णे वातावरणे तैः विजयः न प्राप्यते, तथा च दोषोऽन्येषां प्रति दास्यते।”

हिन्दुस्थान समाचार / Dheeraj Maithani