Enter your Email Address to subscribe to our newsletters

लखनऊ,09 दिसम्बरमासः (हि.स.)।राजधान्यां स्थिते लखनौविश्वविद्यालये तस्य च संलग्नेषु महाविद्यालयेषु द्वाविंशतिदिसम्बरतः पञ्चमजनवरीपर्यन्तं शीतकालीनावकाशः घोषितः। अस्यां अवधौ लखनौविश्वविद्यालये सहयुक्तविश्वविद्यालयेषु च लिखितमौखिकप्रायोगिकपरीक्षाः अन्ये च पूर्वनिश्चितकार्यक्रमाः यथावत् एव सम्पादिताः भविष्यन्ति इति लखनौविश्वविद्यालयस्य कुलसचिवा डॉक्टरी भावना मिश्रया सूचितम्।
हिन्दुस्थान समाचार