Enter your Email Address to subscribe to our newsletters

नैनीतालम्, 9 दिसंबरमासः (हि.स.)।
यस्यां वयसि अधिकांशबालकबालिकाः शब्दानां सम्यक् उच्चारणमेव अधुना अधीयन्ते, तस्यां वयसि नैनितालनिवासिन्या सुयशी तिवारी नाम्न्या बालिकया त्रिवर्षचतुर्मासत्रिदिनपरिमितायां लघ्वायुष्यां असाधारणसमर्थ्यं प्रदर्श्य एकमिनिटे दशवारं— “कृष्णाय वासुदेवाय हरे परमात्मने, प्रणतः क्लेशनाशाय श्रीगोविंदाय नमो नमः” —इत्यस्य मन्त्रस्य स्पष्टोच्चारणं कृतम्, येन सा विश्वस्तरे विशिष्टतां प्राप्तवती।
सुयश्याः एषा उपलब्धिः 29 सितम्बर 2025 तमे दिने साधिता आसीत्, यस्याः प्रमाणपत्रं इन्फ्लुएंसर बुक् ऑफ् वर्ल्ड् रेकॉर्ड्स इत्यनेन अधुना प्रकाशितम्। कथ्यते यत् अस्याः रिकॉर्ड्-भञ्जनकर्मणः विडियो-लेखनं तस्य संस्थाया अपि विस्मयकारणं जातम्।
मल्लीतालनिवासी आदित्यतिवारीतनुजातिवारीयोः पुत्री सुयशी 26 अप्रैल 2022 तमे दिने जाताऽभूत्। परिवारस्य वचनं यत् सुयशी बाल्यादेव मन्त्रेषु भक्तिगीतिषु च रुचिं प्रदर्शयति। सा विंशताधिकान् मन्त्रमालान् कण्ठस्थं वदति, समग्रां च हनुमानचालीसाम् अपि पठितुं समर्थाऽस्ति। संस्थया एतत् फलम् नियमिताभ्यासस्य ध्यानस्य च, बालिकायाः अद्भुतशिक्षणक्षमताया इति अभिहितम्, तथा अल्पवयसि आध्यात्मिकरसस्य प्रेरणादायकता अपि सूचितम्।
सुयश्याः पिता आदित्यतिवारी वर्तमानकाले गुरुग्रामहरियाणायां कार्यरतः। सुयशी अपि तत्रैव नर्सरी-कक्षायां अधीयते, गृह एव तस्या मन्त्रोच्चारणाभ्यासाय अनुकूलः वातावरणं नित्यं लभ्यते। मातापितरौ वदतः यत् बालिका स्वाभाविकतया अस्मिन् दिशि रुचिं धारयति, तस्याः केवलं प्रोत्साहनं दातुं आवश्यकम्।
परिवारः स्थानीयजनाः परिचितजनाः च अस्याः असाधारणस्य उपलब्धेः विषये अत्यन्तं हृष्टाः सन्ति।
हिन्दुस्थान समाचार