Enter your Email Address to subscribe to our newsletters


नवदेहली, ०९ दिसम्बरमासः (हि.स.) केन्द्रीयवस्त्रराज्यमन्त्रिणी पवित्रा मार्गेरिटा मङ्गलवासरे ‘राष्ट्रीयहस्तशिल्पसप्ताह’ इत्यस्य अवसरे हस्तशिल्पकर्मकराः रचनात्मकताधैर्यकलात्मकविरासतायाः प्रतीकान् इति अभ्यनन्दत्। सा अवदत् यत् एषः उत्सवः भारतस्य विरासतां ग्रामीणार्थव्यवस्थाः च संवर्धयति।
मार्गेरिटा एक्सपोस्ट् इति माध्यमे लिखितवती—
अष्टदिनाङ्कतः चतुर्दशदिसम्बरपर्यन्तं आयोज्यमानः सप्तदिवसीयः उत्सवः देशस्य सर्वत्र विख्यातान् कुशलशिल्पिनः प्रति श्रद्धांजलिं प्रदातुं महत्त्वपूर्णः अवसरः। ते स्वकला-कौशलाभ्यां भारतस्य शताब्दिपुरातनां शिल्पपरम्परां न केवलं जीवितां धारयन्ति, अपि तु समृद्धां अपि कुर्वन्ति। अयं विशेषसप्ताहः अस्मान् भारतस्य शिल्पकलायाः पृष्ठे निहितां विशिष्टां भावनाकौशलजटिलतां च गहनतया अवगन्तुं प्रेरयति।
सा अवदत् “भारतीयकर्मकराः पारम्परिकतकनीकाः आधुनिकाकृतिभिः संयोज्य विश्वमञ्चे स्वस्य कलां प्रदर्शयन्ति। अयं सप्ताहः अस्मान् एतत् बोधयति यत् हस्तनिर्मितकृतयः क्रित्वा, तासां महत्त्वं दत्त्वा च वयं तिस्रः अमूल्याः वस्तून् रक्षामः— परीचयम्, गौरवम्, विरासतं च।”
राज्यमन्त्रिणी उवाच “अयं सप्ताहः केवलं उत्सवमात्रं न, अपि तु देशनिवासिनः स्वकर्मकरान् समर्थनं कुर्वन्तु, भारतस्य हस्तशिल्पपरम्परां च अग्रे नयन्तु इति प्रेरयन् एकः विशिष्टः मंचः अपि अस्ति।”
हिन्दुस्थान समाचार / Dheeraj Maithani