Enter your Email Address to subscribe to our newsletters

नवदेहली, ९ दिसम्बरमासः (हि.स.)। केन्द्रस्य गृहमन्त्री अमितशाहः मङ्गलवासरे राज्यसभायां राष्ट्रीयगीते ‘वन्दे मातरम्’ इत्यस्य 150तमेवार्षिके विषये चर्चां आरभ्य उक्तवान् यत् ‘वन्दे मातरम्’ इत्यस्य प्रासङ्गिकता तस्य जन्मकालात् आरभ्य अद्यतनकालपर्यन्तं स्थितैव अस्ति, २०४७ तमे वर्षे विकसितभारतं निर्मीयमाणे अपि सा स्थिति भवितैव। एतत् गीतं मातृभारत्यै समर्पणभावं कर्तव्यबोधं भक्तिं च जनयन्ती अमरा कृतिरिति स्वमतं व्यक्तवान्।
अमितशाहः अवदत् यत् स्वातन्त्र्यसमरे यत्रकुत्रापि देशभक्ताः समागच्छन्ति स्म, तेषां सभानां प्रारम्भः ‘वन्दे मातरम्’ इत्यनेनैव भवति स्म। अधुना अपि सीमायां देशरक्षणं कुर्वन्तः वीरभटाः यदा परं बलिदानं ददति, तेषां जिह्वाग्रे अपि एवादि-शब्दः वर्तते—‘वन्दे मातरम्’।
गृहमन्त्रिणा आरोपितं यत् किञ्चन जनाः अस्याम् ऐतिहासिकचर्चायां बंगालनिर्वाचनस्य सङ्गति स्थापयित्वा तस्य महत्त्वं न्यूनं कर्तुमिच्छन्ति, यद्यपि एषः विषयः राजनीतेः अतिरिच्य स्थितः। सः अवदत् ‘वन्दे मातरम्’ विषये चर्चा तदा अपि आवश्यकाऽआसीत्, यदा तस्य रचना अभवत्, स्वातन्त्र्यसमरकालेऽपि आवश्यकाऽआसीत्, अद्यापि अस्ति, भविष्यति च। ये जनाः अस्य प्रासङ्गिकतां प्रश्नयन्ति, ते स्वबुद्धौ पुनर्विचारं कुर्वन्तु इति।
अमितशाः उक्तवान् ‘वन्दे मातरम्’ परतन्त्रतायाः शृङ्खलाः भङ्क्तुं घोषितः नादः, स्वातन्त्र्यसंग्रामस्य उत्साहप्रेरणा च आसीत्। यदा शहीदानां वीराः मातृभूमेः कृते प्राणान् ददति स्म, तदा अपि ते पुनर्जन्मनि अपि भारते एव जन्मग्रहणं कृत्वा राष्ट्रस्य सेवा कर्तुम् उत्साहिताः भवन्ति स्म एवमेव उद्घोषस्य प्रेरणा अभवत्।
बंकिमचन्द्रचट्टोपाध्यायः अस्य गीतस्य माध्यमेन भारतम् ‘माता’ इति मन्यमानस्य सांस्कृतिकस्य परम्परायाः, सांस्कृतिकराष्ट्रवादस्य च प्रतिष्ठां कृतवान् इति अमितशाहः प्राह। अत्याचारैः, प्रतिबन्धैः, दमनचेष्टाभिः च बाध्यमानमपि एतत् गीतं कश्मीरनगरात् कन्याकुमारिकान्तं गृहे गृहे प्राप्तम्, जनानां हृदयमपि स्पृष्टवान्।
सः अवदत् यत् ‘वन्दे मातरम्’ बहूनि शतानि वर्षाणि प्रवृत्तानां विदेशीयानां आक्रमणानां तथा आङ्ग्लशासनस्य आरोप्यमाणस्य सांस्कृतिकप्रभावस्य प्रतिरोधस्य प्रतीकमपि आसीत्। अस्यैव पृष्ठभूमौ बंकिमबाबुना एषा अमरा कृति रचिता, या देशवासिनां मध्ये अदम्यम् आत्मबलं राष्ट्रियचेतनां च जागरयामास।
हिन्दुस्थान समाचार / अंशु गुप्ता