मुख्यमंत्री 142 नवनियुक्तेभ्यः सहायकप्रवक्तृभ्यो दत्तानि नियुक्तिपत्राणि
- आयुष्मान योजनान्तर्गतेभ्यः प्रदेशस्य 17 लक्षरोगिभ्यः 3300 कोटि रुप्यकेभ्योऽधिकः जातः नकदराशिविरहितः उपचारः देहरादूनम्, 09 दिसंबरमासः (हि. स.)।मुख्यमन्त्रिणा पुष्करसिंहेन धामिना मुख्यसेवकसदने मुख्यमन्त्रीनिवासे मंगलवासरे आयोजिते कार्यक्रमे चिकित्
मुख्यमंत्री पुष्कर सिंह धामी कार्यक्रम को संबोधित करते।


नवनियुक्त सहायक प्रोफेसर कार्यक्रम में मुख्यमंत्री के साथ।


- आयुष्मान योजनान्तर्गतेभ्यः प्रदेशस्य 17 लक्षरोगिभ्यः 3300 कोटि रुप्यकेभ्योऽधिकः जातः नकदराशिविरहितः उपचारः

देहरादूनम्, 09 दिसंबरमासः (हि. स.)।मुख्यमन्त्रिणा पुष्करसिंहेन धामिना मुख्यसेवकसदने मुख्यमन्त्रीनिवासे मंगलवासरे आयोजिते कार्यक्रमे चिकित्सासेवाचयनमण्डलेन चयनितानां राजकीयवैद्यकीयमहाविद्यालयानां 142 सहायकप्राध्यापकानां नियुक्तिपत्राणि वितीरितानि।

मुख्यमन्त्रिणा नवनियुक्तानां सहायकप्राध्यापकानां शुभाशंसनपूर्वकं उक्तं यत् एषः अवसरः चिकित्साक्षेत्रस्य सुदृढीकरणदिशि अत्यन्तं महत्वपूर्णः पादः सिद्धः। सर्वे अपि स्वविद्यार्थिभ्यः गुणवत्तायुक्तां शिक्षा प्रशिक्षणं च दद्यात, तेषां अंतः संवेदनशीलता, सहानुभूति, सेवारूपभावनाः च विकसिताः स्युः इति सः आग्रहं कृतवान्। एतत् कारणेन ते कुशलदक्षवैद्याः भूत्वा समाजस्य कर्तव्येषु तथा मानवतायाः प्रति उत्तरदायित्वेषु अपि निष्ठया प्रवर्तेरन्।

मुख्यमन्त्रिणा उक्तं यत् प्रधानमन्त्रिणः मोदीनेतृत्वे राज्यसरकारा स्वास्थ्यसेवानां विस्तारसुदृढीकरणयोः कार्यं निरन्तरं करोति। राज्यस्य प्रत्येकनागरिकाय गुणवत्तायुक्ताः चिकित्सोपकरणाः अल्पमुल्ये उपलभ्यन्ते। आयुष्मानयोजनान्तर्गतं अद्यावधि 61 लक्षाधिकाः आयुष्मानकार्डाः वितीरिताः, येषां माध्यमेन 17 लक्षाधिकरोगिणां 3300 कोटिरूप्यकाधिकं कैशलसरूपेण उपचारः कृतः।

सः अवदत् यत् राज्यसरकारा प्रत्येकजिले एकं वैद्यकीयमहाविद्यालयं स्थापयति, येन सुदूरप्रान्तेषु अपि जनाः स्वजिले एव सर्वाधुनिकस्वास्थ्यसुविधाः लभेरन्। एतेषु पञ्च वैद्यकीयमहाविद्यालयानि पूर्वमेव सञ्चालितानि, द्वयोः निर्माणं प्रगतौ अस्ति। देहरादून, हल्द्वानी, श्रीनगरवैद्यकीयमहाविद्यालयेषु सुपरस्पेशियालिटी विभागाश्च स्थापिताः।

मुख्यमन्त्रिणा अवोचित् यत् हल्द्वानीयां राज्यस्य प्रथमं अत्याधुनिकक्यान्सरसंस्थानं निर्मीयते, तथा हेलीऐम्बुलेन्ससेवा आपत्कालीनस्थितिषु सुदूरप्रदेशीयजनानां जीवनरक्षायै अत्यन्तं उपयुक्ता। राज्ये रोगिणां पैथालोजिकल् परीक्षणसेवाः अपि निःशुल्कतया दत्ताः। टेलीमेडिसिनसेवाभिः ग्रामेषु स्थितजनाः विशेषज्ञवैद्यैः परामर्शं लभन्ते।

सः अवदत् यत् सर्वे सरकारीवैद्यकीयालयाः महाविद्यालयाश्च कर्मचारीकमीं दूरयितुं कार्यरताः। 142 सहायकाचार्याणां नियुक्तिपत्राणि दत्तानि, 356 असिस्टेंटप्रोफेसराणां चयनप्रक्रिया च प्रवर्तमानैव। 1248 नर्सिङ्गाधिकारीणां 170 टेक्नीशियनानां च नियुक्तयः कृताः, 600 नर्सिङ्गाधिकारीणां चयनप्रक्रिया अपि प्रवहति।

मुख्यमन्त्रिणा एवमपि उक्तं यत् राज्ये पूर्वं भर्तीप्रक्रियासु पक्षपातो धांधली च प्रचलिता आसीत्। अस्माभिः देशस्य अति-कठिनं नकलविरोधिनियमं प्रवर्तितम्। अद्य सर्वाः चयनप्रक्रियाः मेधासामर्थ्यस्य आधारम् अनुसृत्य सुनिश्चिताः, येन योग्याः अभ्यर्थिनः तेषां कौशलस्य परिश्रमस्य च फलम् लभन्ते। अद्यावधि प्रदेशस्य 27 सहस्रयुवकाः सरकारीसेवां प्राप्तवन्तः। रिक्तपदानि यत्र कुत्र सन्ति, तानि शक्यतित्वरया आयोगेन पूर्यमाणानि भविष्यन्ति।

मन्त्रिणा धनसिंहेन रावतिना अवोचि यत् अद्य वैद्यकीयमहाविद्यालयेषु 62 प्रतिशतं स्थायीकर्मचारीसंख्या वर्तते, सा च भाव्यकाले वर्धिष्यते। पिथौरागढ, रुद्रपुरवैद्यकीयमहाविद्यालययोः निर्माणकार्यं 70 प्रतिशतं सम्पन्नम्, अगामिसत्रे उभे महाविद्यालये उद्घाटिते भविष्यतः। राज्यस्य सरकारीवैद्यकीयमहाविद्यालयेषु 625 छात्राः एमबीबीएस् तथा 256 छात्राः पीजी शिक्षां प्राप्नुवन्ति। राज्ये 100 उपरि महाविद्यालयाः सन्ति, यत्र 14 सहस्रछात्राः नर्सिङ्गशिक्षां प्राप्नुवन्ति।

सः अवदत् यत् नव-नियुक्ताः 3000 नर्सिङ्गस्टाफ् मध्ये 100 प्रतिशतं जनाः उत्तराखण्डराज्यस्य एव। 32 लक्षलोकानां निःशुल्कपरीक्षणं, 350 जनानां एयरऐम्बुलेन्सद्वारा उच्चकेन्द्रेषु रेफरल्-उपचारश्च कृतः।

अस्मिन् अवसरे विधायकः सविताकपूर, विधायकः खजानदास, सचिवः डॉ आर राजेशकुमारः, निदेशकः चिकित्साशिक्षा डॉ अजयआर्यः, वैद्यकीयमहाविद्यालयप्राचार्याश्च उपस्थिताः आसन्।

-----------------------

हिन्दुस्थान समाचार