मुख्यमंत्री 46 कोटिरुप्यकमितानां विकास परियोजनानां कृतवान् शिलान्यास-लोकापर्णं च
देहरादूनम्, 9 दिसंबरमासः (हि.स.)। अतीतेषु सप्तविंशतवर्षेषु देहरादून-नगरनिगमे नागरिकसुविधानां विस्तारस्य, आधुनिक-नगरीय-प्रबन्धनस्य च क्षेत्रे अनेकाः उपलब्धयः साधिताः। देहरादून-नगरं स्वच्छं सुरक्षितं सुव्यवस्थितं च कर्तुं निगमेन अत्यन्तं महत्वपूर्णं
मुख्यमंत्री पुष्कर सिंह धामी को देहरादून मेयर सौरभ थपलियाल चित्र भेंट करते।


मुख्यमंत्री पुष्कर सिंह धामी  देहरादून निगम के विकास परियोजनाओं का शिलान्यास और लोकार्पण करते।


देहरादूनम्, 9 दिसंबरमासः (हि.स.)। अतीतेषु सप्तविंशतवर्षेषु देहरादून-नगरनिगमे नागरिकसुविधानां विस्तारस्य, आधुनिक-नगरीय-प्रबन्धनस्य च क्षेत्रे अनेकाः उपलब्धयः साधिताः। देहरादून-नगरं स्वच्छं सुरक्षितं सुव्यवस्थितं च कर्तुं निगमेन अत्यन्तं महत्वपूर्णं योगदानं दत्तम्। एताः बातें उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहेन धामिना देहरादून-नगरनिगमस्य सप्तविंशतितम-स्थापनादिवसस्य अवसरे मंगलवासरे उक्तम्। अस्मिन् अवसरे मुख्यमन्त्रिणा 46 कोटिरूप्यकाधिकमूल्ययुक्तानां विकास-परियोजनानां शिलान्यासः लोकार्पणं च कृतम्।

स्थापनादिवससमारोहं सम्बोध्य मुख्यमन्त्रिणा उक्तं यत् एषः अवसरः गतवर्षेषु साधितानां उपलब्धीनां उत्सवः, तथा भविष्यकाले आगत्य पश्चात् उपस्थितासु चुनौतिषु दृष्टिपातेन विकासस्वप्नानाम् अवतरणस्य सङ्कल्पः अपि अस्ति।

प्रधानमन्त्रिणो नेतृत्वे भारतं विकाससमृद्ध्योः नूतनान् कीर्तिमानान् स्थापयति। शहरीयक्षेत्रेषु विकासार्थं विविधाः परियोजनाः राष्ट्रे प्रवर्तन्ते। स्वच्छ-भारत-मिशन इत्यनेन देशस्य सहस्रशः नगरेषु स्वच्छताया नूतना संस्कृति स्थापिताऽस्ति। अमृत-योजना इत्यनेन जलापूर्ति, सीवरेज-व्यवस्था, हरितक्षेत्राणि च उन्नतानि। एवं स्मार्ट-सिटी-मिशन नगरविकासस्य आदर्शमिव उभूतम्।

मुख्यमन्त्रिणा अवदत्—प्रधानमन्त्रिणः मार्गदर्शनेन राज्यसरकारा देहरादूनं आधुनिकं विकसितं च नगरं कर्तुं संकल्पिता वर्तते। स्वच्छ-भारत-मिशनान्तर्गतं ठोस-अपशिष्ट-प्रबन्धनस्य सुदृढीकरणं क्रियते। स्मार्टसिटी-मिशन्, प्रधानमंत्री-स्वनिधि-योजना, प्रधानमंत्री-आवास-योजना, अमृत-मिशन्, मुक्तशौच-अभियानम्, लीगेसी-वेस्ट्-प्रबन्धनम् इत्यादिभिः नागरिकेभ्यः उत्तम-सुविधाः प्रदीयन्ते।

देहरादूनं आधुनिकनगररूपेण स्थापयितुं राज्यसर्वकारः 1400 कोटीरूप्यकाधिकमूल्ययुक्तासु परियोजनासु कार्यं करोति। आधुनिक-यंत्रीकृत-ट्रांस्फर-स्टेशनं कचरा-प्रबन्धनार्थं निर्मितम्। अपशिष्ट-वाहनानां वास्तविककाल-निगराणी-अर्थं इण्टिग्रेटेड् कमाण्ड्-एण्ड्-कन्ट्रोल्-सेन्टर् अपि स्थापितम्। हरित-स्वस्थ-देहरादून-निर्माणार्थं 35 उद्यानानां निर्माणम् अपि सम्पन्नम्।

मुख्यमन्त्रिणा अवदत्—केदारपुरं-क्षेत्रे योगा-थीम-आधारितं नगरस्य महत्तमं उद्यानं निर्मीयते। वीरबलिदानिनां स्मरणाय विशेष-स्मृति-उद्यानैः 50 सहस्र-वर्ग-मीटर-परिमितः हरितक्षेत्रः विकसितः। नगरस्य नदीनां पुनर्जीवनार्थं रीन्यू-रिस्पना अभियानं अपि प्रवर्तते।

पर्यावरण-संरक्षणं प्रोत्साहयितुं 30 वैद्युत-बसानां परिचालनम्, 11 स्थलेषु निजी-वैद्युत-यानों कृते चार्जिङ्-स्टेशन-निर्माणं च कृतम्। नेशनल् क्लीन् एयर् प्रोग्राम् अन्तर्गतं स्वच्छ-वायु-सर्वेक्षणे देहरादूनं देशस्य 19 स्थानं प्राप्तम्। राष्ट्र-स्वच्छता-रैंकिङ् अपि देहरादूनं 62 स्थानेन सुधारम् अभिलब्धवान्।

नगरस्य यातायात्-संकटस्य स्थायी-समाधानार्थं भूमिगत-पार्किङ्ग-परियोजनाः क्रियमाणाः, रिस्पना-बिन्दाल-नद्योः उपरि एलिवेटेड्-रोड्-परियोजना अपि योजनायां वर्तते। अस्मिन् अवसरे उत्कृष्ट-कार्यकृत्वे निगम-कर्मचारीणः पुरस्कृताः।

महापौरः सौरभथपलियालः अवदत्—देहरादूनं आधुनिकं पर्यावरणानुकूलं च नगरं कर्तुं नगरनिगमस्य सततप्रयत्नः प्रवर्तते।

अन्ते कार्यक्रमे मन्त्रीणां, विधायकानां, अधिकारीणां, पार्षदां, सैनिक-विद्यालय-केंद्रीयविद्यालय-आर्मीपब्लिक्-स्कूल्-विद्यार्थिनां च बहुसंख्येन उपस्थिति अभवत्।

---शिलान्यासाः• किरसाली-चतुष्पथः सहस्त्रधारा-क्रॉसिंग्-पर्यन्तं मार्गस्य फुटपाथ-विकासः, हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 264.21 लक्षरूप्यकाणि।• मोथरोवालायां मृत-पशु-निस्तारणार्थं गैस्-चालितः पशु-शवदाह-गृहस्य निर्माणम् — व्ययः 147.89 लक्षरूप्यकाणि।• कैनाल्-मार्गः लक्जूरिया-फार्मात् अजन्ता-होटेल्-पर्यन्तं मार्गस्य फुटपाथ-विकासः, हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 247.58 लक्षरूप्यकाणि।• कुठाल्-द्वारतो राजपुर-चौकं प्रति मार्गस्य फुटपाथ-विकासः हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 257.67 लक्षरूप्यकाणि।• धण्टाघरात् आरटीओ-चतुष्पंथानं प्रति मार्गस्य फुटपाथ-विकासः हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 165.84 लक्षरूप्यकाणि।•घंटागृहतो यमुनाकॉलोनीं प्रति मार्गस्य पदातिमार्ग-विकासः हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 193.11 लक्षरूप्यकाणि।• विवेकानन्द-चौकात् कुठाल्-गेटं प्रति मार्गस्य फुटपाथ-विकासः हरितीकरणं सौन्दर्यवर्धनं च — व्ययः 234.79 लक्षरूप्यकाणि।

लोकार्पणम्

• वार्डसंख्या 60 आईटी-पार्क-मार्गे उद्यान-विकासकार्यं — व्ययः 116.75 लक्षरूप्यकाणि।• नगरनिगमस्य कॉफी-टेबल-पुस्तकस्य, डायरीस्य, ई-कार्यालयस्य अनावरणम्।• यंत्रीकृत-स्मार्ट्-कार्-पार्किङ्ग् — व्ययः 3.29 कोटिरूप्यकाणि।• राजपुर-रोड्-पार्किङ्ग् — व्ययः 1.00 कोटिरूप्यकाणि।• धोरण-प्रदेशे यंत्रीकृत-ट्रान्स्फर-स्टेशन-निर्माणम् — व्ययः 6.29 कोटिरूप्यकाणि।

------------------

हिन्दुस्थान समाचार