केरलस्य कोट्टायमनगरे प्रथमः जेन–ज़ी बहुउद्देश्यीयः डाककार्यालयप्रसारणकेन्द्रः उद्घाटितः
कोट्टायम्, ०९ दिसम्बरमासः (हि.स.)— भारतीयडाकविभागेन केरलस्य कोट्टायंस्थिते सी.एम्.एस्. महाविद्यालये राज्यस्य प्रथमः जेन–ज़ी डाककार्यालयप्रसारणकेन्द्रः मङ्गलवासरे आरब्धः। नूतनयुवजनान् पुरःसरं चिन्त्य निर्मितस्य अस्य आधुनिकस्य डाककार्यालयस्य उद्घाटनं
बहुउद्देश्यीय पोस्ट ऑफिस एक्सटेंशन काउंटर का उद्घाटन करते डाक विभाग के अधिकारी


कोट्टायम्, ०९ दिसम्बरमासः (हि.स.)— भारतीयडाकविभागेन केरलस्य कोट्टायंस्थिते सी.एम्.एस्. महाविद्यालये राज्यस्य प्रथमः जेन–ज़ी डाककार्यालयप्रसारणकेन्द्रः मङ्गलवासरे आरब्धः। नूतनयुवजनान् पुरःसरं चिन्त्य निर्मितस्य अस्य आधुनिकस्य डाककार्यालयस्य उद्घाटनं केरलमध्यक्षेत्रस्य डाकसेवाः निदेशकेन एन.आर्. गिरिणा कृतम्। अस्याः विशेषता एषा यत् अस्य सम्पूर्णा रूपरेखा महाविद्यालयस्थैः छात्रैः इण्डियापोस्ट्–संस्थया सह संयुक्तरूपेण निर्मिता।

केंद्रीयसञ्चारमन्त्रालयस्य अनुसारम्, एषः नूतनः डाककार्यालयः छात्रेभ्यः तथा युवासमुदायाय विद्याभ्यासं, कार्यं, डाकसेवाः च एकस्मिन् एव स्थाने सुलभतया कर्तुं सौकर्यम् उपपादयति। सम्पूर्णं परिसरं युवानां रुचिं प्रति प्रकृति-आश्रितं रचनात्मकं च रूपं दत्तम्। अत्र पिकनिकशैल्याः उपवेशनव्यवस्था, ऊर्ध्वोद्यानम्, पुनःप्रक्रियायुक्तचक्रेभ्यः निर्मिताः आसन्दाः च स्थापिताः।

छात्रसुविधार्थं केंद्रस्य समीपे अङ्कसंगणकचलदूरवाणी-च ऊर्जास्थलानि विन्यस्तानि। पृथक् वाचनमनोरञ्जनकोणोऽपि निर्मितः, यस्मिन् पुस्तकाश्च फलकक्रीडाः च उपलब्धाः। डाकसेवाभ्यः सम्बद्धाः सर्वाः आवश्यकताः पूरयितुं बहुउद्देश्यीयः काउण्टरयन्त्रः, आरक्षणकेन्द्रः, पुटीकरणसामग्री, मायस्टैम्पमुद्रकः च अत्र उपस्थिताः। अस्य डाककार्यालयस्य भित्तयः छात्रैः महाविद्यालयकर्मचारीभिः च निर्मिताभिः कलाकृतिभिः अलङ्कृताः। तासु चित्रेषु इण्डियापोस्ट् इत्यस्य विरासत्, कोट्टायं-नगर्याः सांस्कृतिकपरम्परा तथा प्रकृतिः सम्बन्धिताः विषयाः दृश्यन्ते।

हिन्दुस्थान समाचार / अंशु गुप्ता