Enter your Email Address to subscribe to our newsletters

मुम्बई, 9 दिसम्बरमासः (हि.स.)
महाराष्ट्रस्य मुख्यमन्त्री देवेंद्रफडणवीसः मङ्गलवासरे विधानसभायां अवदत् यत् राज्ये गुटखा इत्यस्य अवैधपरिवहनविक्रयकर्तॄणां निरोधनार्थं महाराष्ट्रनियन्त्रितसङ्गठित–अपराध–अधिनियमस्य (मकोकाविधानस्य) संशोधनं कर्तुं विचारः क्रियते। एतेन राज्ये गुटखाया: , पानमसालाया: तथा चरसादिमादकपदार्थानां क्रयविक्रयव्यवहारे नियन्त्रणं सम्भविष्यति।
मुख्यमन्त्री फडणवीसः मङ्गलवासरे नागपुरे प्रवर्तमानस्य विधानमण्डलस्य शीतकालीन–अधिवेशनकाले विधानसभायां भाषमाणः आसीत्। सः अवदत् यत् अस्य विधानस्य वर्तमानस्वरूपेण प्रयोगाय भयप्रदर्शनम् अथवा शारीरिकहानिः आवश्यकी भवति। एषः नियमः प्रतिबन्धितपदार्थानां नियमितविक्रेतॄणां विरुद्धम् अस्य विधानस्य प्रयोगं दुष्करं करोति। अतः राज्यसर्वकारेण केन्द्रीयगृहविभागाय अस्य विधानस्य संशोधनार्थं प्रस्तावः प्रेषितः अस्ति। तेन अपि उक्तं यत् गुटखासम्बन्धिषु तम्बाकू–उत्पादेषु बहवः अभियोगाः पञ्जीकृताः सन्ति, किन्तु वर्तमानविधानस्य कारणेन अस्य अवैधव्यापारस्य निरोधनं कठिनं जातम् अस्ति।
मुख्यमन्त्रिण: कथनानुसारं मादकपदार्थानां सङ्गठितव्यापारजालस्य (सुसंरचित–अवैधव्यवहारसंस्थायाः) प्रभावीदमनाय अधिकाः दृढाः वैधानिक–उपायाः अपेक्षिताः सन्ति। तेन सूचितं यत् राज्यसर्वकारेण नवीमुम्बईनगरे, अहमदनगरे, नागपुरनगरे, यवतमालनगरे, नाशिकनगरे, बुलढाणानगरे तथा अन्येषु अपि नगरेषु मादकपदार्थानां विरुद्धं कठोरकार्यवाही कृता अस्ति।
यदि मकोकाविधाने एतत् संशोधनं कार्यान्वितं भविष्यति, तर्हि महाराष्ट्रस्य अवैधगुटखावितरणनिरोधनरणनीतिः अत्यन्तं सबला भविष्यति। येन च दीर्घकालं केवलं नियामक–अपराधरूपेण गृहीतं एतत् प्रकरणं सङ्गठित–अपराधरूपे परिणमिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani