Enter your Email Address to subscribe to our newsletters
रायपुरम्, 19 सितंबरमासः (हि.स.)।प्रधानमन्त्रिणा नरेन्द्रमोदिना सहपञ्चसप्ततितमे जन्मदिने छत्तीसगढराज्येन सामाजिकसुधारदिशि ऐतिहासिकी सिद्धिः साधिता। सूरजपुरजिलायाः पञ्चसप्ततिः ग्रामपञ्चायतीः “बालविवाहमुक्तग्रामपञ्चायतीः” इति घोषिता:। गतद्विवार्षिके एतेषु पञ्चायतीषु बालविवाहस्य कश्चन अपि प्रकरणं न दृश्यते इति आधाररूपेण एषा मान्यता दत्ता।
अस्याः सिद्धेः पृष्ठे राज्यस्य महिला-बालविकासमन्त्रिणी लक्ष्मी राजवाडे इत्यस्याः निरन्तरा पहलः, सक्रियमार्गदर्शनं नेतृत्वं च निर्णायकम् अभवत्। तस्याः नेतृत्वे विभागेन ग्रामे ग्रामे जागरूकताअभियानं प्रवर्तितम्, आङ्गनवाडीकार्यकर्तृणां पञ्चायतप्रतिनिधीनां च सक्रियता कृताः, समुदायस्य च सहभागिता सुनिश्चितं कृतम्।
राजवाडे उवाच—“सूरजपुरजिलस्य एषा पहलः केवलं छत्तीसगढस्य न, अपितु समग्रस्य राष्ट्रस्य प्रेरणास्वरूपा भविष्यति। प्रधानमन्त्रिणः अमृतमहोत्सववर्षे एषा सिद्धिः समाजे सकारात्मकपरिवर्तनदिशि सशक्तसन्देशं ददाति” इति।
जिलाप्रशासनम् अपि अस्याः पहलायाः सफलतायाम् महिला-बालविकासविभागस्य, आङ्गनवाडीकार्यकर्तृणाम्, ग्रामपञ्चायतप्रतिनिधीनाम्, स्थानीयसमुदायस्य च संयुक्तभूमिकाम् प्रशंसत्। सर्वेषां सामूहिकप्रयासेन एतत् सुनिश्चितं जातम् यत् शिक्षा-जागरूकते प्राधान्यं दत्तम्, कश्चन अपि बालविवाहः न जातः।
गौरवकथं यत् मुख्यमंत्री विष्णुदेवसायस्य नेतृत्वे 10 मार्च 2024 तमे दिने “बालविवाहमुक्तछत्तीसगढाभियानम्” आरब्धम्। एषः अभियानः युनिसेफस्य सहयोगेन, मन्त्री लक्ष्मी राजवाडे इत्यस्याः मार्गदर्शनेन च प्रवर्तते। राज्यसरकारा बालविवाहउन्मूलनं सर्वाेच्चप्राथमिकत्वेषु स्थापयति, विभागः निरन्तरं जनजागरूकतां, निग्रहम्, सामाजिकसहभागितां च सुदृढयति।
सूरजपुरस्य अस्याः सफलतायाः प्रेरणया अधुना छत्तीसगढस्य अन्येषु जिलेषु अपि पञ्चायताः, नगरीयनिकायाः च “बालविवाहमुक्ताः” इति घोषयितुं प्रक्रिया प्रारब्धा। येषु जनपदेषु गतद्विवार्षिके बालविवाहस्य कश्चन अपि प्रकरणं न दृश्यते, तेषु शीघ्रमेव प्रमाणपत्राणि प्रदास्यन्ति।
---------------
हिन्दुस्थान समाचार