Enter your Email Address to subscribe to our newsletters
कोलकाता, 19 सितम्बरमासः (हि.स.)।पश्चिमबङ्गराज्यस्य मौलाना-अबुल्-कलाम्-आजाद्-प्रौद्योगिकी-विश्वविद्यालये (MAKAUT इति प्रसिद्धे) महती वित्तीय-अनियमितता प्रकाशिता। केन्द्रीय-शिक्षा-राज्यमन्त्री तथा पश्चिमबङ्ग-भारतीयजनतापक्षस्य पूर्वाध्यक्षः डॉ. सुकान्त-मजूमदारः अभ्याहृतवान् यत् लेखापरीक्षा-प्रतिवेदनेन विश्वविद्यालयेन सार्वजनिक-धनस्य विशालदुरुपयोगः उद्घाटितः।
मजूमदार-महाशयेन शुक्रवारदिने तस्मिन् सम्बन्धिनः कागदपत्राः सोशल्-मीडियायाः “X” इत्याख्ये व्यासपीठे प्रकाशिताः। तत्र तेन उक्तं यत् समग्रेण ₹837 कोटि-रूप्यकाणां गड़बड़ी दृश्यते। तत्र –
₹342 कोटि-राशिः लेखाङ्कनं विना अन्यत्र व्ययिता,
₹128 कोटि-राशेः उपयोगिता-प्रमाणपत्राणि न प्रस्तुतानि,
₹96 कोटि-रूप्यक-मूल्यस्य सामग्री ऊर्ध्वमूल्ये क्रीता,
₹214 कोटि-राशिः अग्रिमरूपेण दत्ता किन्तु कार्यं न सम्पन्नम्,
₹57 कोटि-रूप्यकाणि तु मिथ्या अथवा पुनरुक्त-लाभिभ्यः व्ययितानि।
तेन आरोपितं यत् एषः करदातॄणां धनस्य प्रत्यक्ष-लुण्ठनमेव, यत्र उत्तरदायित्वं शून्यमस्ति।
अस्य विषयस्य सम्बन्धिनि एकं जनहित-याचनापत्रम् (PIL) कलकत्ता-उच्चन्यायालये दत्तम्। न्यायालयस्य विभागीयपीठेन सम्बन्धिनः अधिकारिणः शपथपत्रं समर्पयितुं आदेशः दत्तः। अस्य विषयस्य श्रवणं पूजाअवकाशोपरान्तं भविष्यति।
मजूमदार-महाशयः ट्वीट् कृत्वा उक्तवान् – “₹837 कोटि-रूप्यकाणां लुण्ठनं जातम्। सत्यम् न्यायालये प्रकटिष्यते, न्यायः अवश्यमेव लभ्यते।”
हिन्दुस्थान समाचार