Enter your Email Address to subscribe to our newsletters
—ज्ञाताज्ञातपितॄणां कृते पिंडदानं श्राद्धं च कृतम्
—त्रिपिंडी श्राद्ध पूर्वजान् अतिरिच्य जनेभ्योऽपि लाभदायि
वाराणसी,19 सितम्बरमासः (हि.स.)।
पितृपक्षः अधुना समापनाभिमुखः अस्ति। धर्ममोक्षनगर्या काश्यां सनातनधर्मावलम्बिनः भक्तिपरिपूर्णेन हृदयेन स्वपूर्वजानां श्राद्धं पिण्डदानं तर्पणं च कुर्वन्ति। त्रयोदशी–तिथौ, शुक्रवासरे, प्रभाते एव जनाः गङ्गातटे सन्ध्याघाटे, दशाश्वमेधघाटे, मीरघाटे, अस्सीघाटे, शिवालाघाटे, राजघाटे च तथा विमलतीर्थे पिशाचमोचनकुण्डे अपि आगत्य पिण्डदानकर्माणि प्रारब्धवन्तः।
पूर्णश्रद्धया जनाः मुण्डनं कृत्वा, गङ्गायां कुण्डेषु च स्नानं कृत्वा श्राद्धकर्म पिण्डदानं च अकरोत्। अयं क्रमः दिवसरात्रं प्रवृत्तः। त्रयोदश्यां पितॄणां पिण्डदानश्राद्धार्थं गङ्गाघाटेषु अपारः जनसमूहः उपस्थितः।
श्राद्धसमये जनाः स्वकुलं, गोत्रं च उच्चार्य, गङ्गाजलं हस्ते गृहित्वा संकल्पं कृत्वा पूर्वाभिमुखाः स्थित्वा कुशधान्यजवांसि तुलसीपत्राणि श्वेतपुष्पाणि च अर्पयामासुः। तदनन्तरं तिलयुक्तस्य जलस्य त्रयः अञ्जल्यः तर्पणाय दत्ताः। अस्मिन्नेव काले तर्पणादौ काचित् त्रुटिः जातास्यात्, तिलाञ्जलिदानसमये कोऽपि पितरः विस्मृतः स्यात् इति क्षमायाचनापि कृतम्। पश्चात् पितॄन् प्रति सुखसम्पन्नजीवनस्य आशीर्वादम् अपि याचितवन्तः।
पिण्डदानानन्तरं जनाः गवां, शुनां, काकानां च प्रियाहारान्नं निवेद्य तान् भोजितवन्तः। ततः पितॄन् पिण्डदानतर्पणेन सम्पूज्य स्वगृहं प्रतिनिवृत्ताः।
शास्त्रे प्रतिपाद्यते यत् पितृपक्षे पितरः पञ्चदशदिनपर्यन्तं स्वगृहपरिसरे वसन्ति, तदा श्राद्धकर्मणि तर्पणादिषु भक्त्या संलग्नानाम् आत्मीयसेवाभावं स्वीकृत्य अमावास्यायां पितृविसर्जनदिने स्वलोकं प्रत्यागच्छन्ति। यदि श्राद्धकर्म न क्रियते तर्हि सप्तजन्मनां पुण्यं नश्यति इति विश्वासः अस्ति।
ज्योतिषकर्मकाण्डविद् रविन्द्रतिवारी ‘हिन्दुस्थानसमाचारं’ प्रति अवदत् यत् भारते पारिवारिकसामाजिकजालम् अत्यन्तं दृढम्। अत्र जनाः केवलं जीवनकाले न तु मृत्युोत्तरकालेऽपि सम्बन्धान् पालनं कुर्वन्ति। प्राचीनकाले आवश्यकता प्राप्ते पितॄन् आह्वयित्वा तेषां परामर्शं गृह्णीयुः। अधुना साधनाभावेन आधुनिकाः जनाः पितॄणामस्तित्वं नाङ्गीकुर्वन्ति।
तथापि ये जनाः पिण्डदानादिना पितॄन् तुष्ययन्ति, ते सुखेन जीवनं यापयन्ति।
विमलतीर्थे श्राद्धकर्मात् अनन्तरं गयाश्राद्धस्य विशेषमहत्त्वं भवति।कर्मकाण्डविदः प्रदीपपाण्डेयः अवदत् यत्सनातनधर्मे पितृपक्षे जनाः पितॄन् स्मृत्वा श्राद्धं कुर्वन्ति। तर्पणश्राद्धकर्मभ्यः पितृदोषनिवारणं पितॄणाम् शान्तिः च लभ्यते। यदि तर्पणं न क्रियते तर्हि पितॄणां मोक्षः न सिध्यति, तेषां च आत्माः मृत्युलोके भ्रमन्ति। तस्मात् पितृपक्षे तर्पणं कृत्वा तेषां शान्तिः साध्यते। पितॄणां प्रसन्नतया गृहे सुखशान्तिः आगच्छति।
पाण्डेयः पुनरपि अवदत्—
पितृपक्षे पितरः स्मृताः पूजिताश्च सन्तः शान्तिम् अवाप्नुवन्ति। तदा तिलतर्पणं त्रिपिण्डीश्राद्धं च करणीयम्। त्रिपिण्डीश्राद्धं ब्रह्मविष्णुरुद्रपूजनपूर्वकं क्रियते।
कर्मकाण्डिनः प्रदीपपाण्डेयः कथयति—
यदि कस्यचित् बान्धवस्य निधनं त्रयोदशी–तिथौ जातं तर्हि तस्य श्राद्धं त्रयोदश्यामेव करणीयम्। यदि निधनतिथिः ज्ञाता न स्यात्, तर्हि अपि त्रयोदशीश्राद्धं कर्तुं शक्यते। अल्पवयस्केषां निधनसमये अपि त्रयोदशी विशेषतः नियोजिता अस्ति।
---------------
हिन्दुस्थान समाचार