कारसेवकपुरे कृत्रिमाङ्ग-प्रत्यारोपण-शिबिरं 27 दिनाङ्कात् आरभ्यते
अयोध्या, 19 सितंबरमासः (हि.स.)। प्रतिवर्षवत् अस्मिन्नेव वर्षेऽपि विश्वहिन्दूपरिषद् अशोकसिंहल-फाउण्डेशनस्य च आधिपत्ये 27 सितम्बरदिनाङ्कात् कारसेवकपुरे कृत्रिमाङ्गप्रत्यारोपण-सहायकसाधनवितरणशिबिरं आयोजयिष्यति। एषः कार्यक्रमः श्रीरामजन्मभूमिमन्दिरान्दो
कारसेवकपुरम में कृत्रिम अंग प्रत्यारोपण शिविर 27 से


अयोध्या, 19 सितंबरमासः (हि.स.)।

प्रतिवर्षवत् अस्मिन्नेव वर्षेऽपि विश्वहिन्दूपरिषद् अशोकसिंहल-फाउण्डेशनस्य च आधिपत्ये 27 सितम्बरदिनाङ्कात् कारसेवकपुरे कृत्रिमाङ्गप्रत्यारोपण-सहायकसाधनवितरणशिबिरं आयोजयिष्यति। एषः कार्यक्रमः श्रीरामजन्मभूमिमन्दिरान्दोलनस्य पुरोधाः अशोकसिंहलस्य जन्मदिने सम्पाद्यते। शिबिरं प्रथमा अक्टूबरदिनाङ्कपर्यन्तं प्रचलिष्यति। अस्य पञ्जीकरणं 22 सितम्बरदिनाङ्कपर्यन्तं प्रचलितम्।

एषा जानकारी शुक्रवारदिने विश्वहिन्दूपरिषदः उपाध्यक्षेन तथा श्रीरामजन्मभूमितीर्थक्षेत्रन्यास्यमहामन्त्रिणा चम्पतरायनाम्ना पत्रकारेभ्यः प्रदत्ता। ते कारसेवकपुरे पत्रकारान् सम्बोधयन्तः आसन्।

तेन उद्घोषितम्— “शिबिरस्य तिथिः स्थानं च नियतं भवति। पञ्जीकृताः दिव्याङ्गाः आवश्यकदिने आह्वास्यन्ते। मध्याह्नभोजनव्यवस्था अपि भविष्यति। य इच्छन्ति कर्णयन्त्रं, तेषां श्रवणशक्तेः परीक्षणं भविष्यति, अतः प्रमाणपत्रस्य आवश्यकतैव न भविष्यति। रक्तपरीक्षणे थायराइडपरीक्षणमपि सम्मिलिष्यते। ह्वीलचेयर्, त्रिचक्रिका, उपनेत्राणि च अपि वितरिष्यन्ते।

अस्मिन् कार्यक्रमे एम्-टू-के इत्याख्यं व्यापारिकसंस्थानं अपि सम्बद्धं भविष्यति। परीक्षणकार्यं तन्त्रज्ञानसमृद्धजनानां टोलीनिष्पादितं भविष्यति।”

हिन्दुस्थान समाचार / अंशु गुप्ता