मुख्यमन्त्रिणा योगिना उत्तरप्रदेश-अन्ताराष्ट्रियवाणिज्यप्रदर्शनस्य सज्जतायाः समीक्षणं कृतम्
गौतमबुद्धनगरम्, 19सितम्बरमासः (हि.स.)। उत्तरप्रदेश-अन्तर्राष्ट्रीय-वाणिज्य-प्रदर्शनस्य तृतीयसंस्करणस्य सज्जतां निरीक्षितुं उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य मध्यान्हे १.४५ वादने ग्रेटर-नॊएडायाम् आगतः। मुख्यमन्त्रिणा वरिष्ठ-अधिकाऱिभिः
यूपी इंटरनेशनल ट्रेड शो की तैयारियों का जायजा लेने के लिए गौतम बुद्ध नगर पहुंचे मुख्यमंत्री


गौतमबुद्धनगरम्, 19सितम्बरमासः (हि.स.)। उत्तरप्रदेश-अन्तर्राष्ट्रीय-वाणिज्य-प्रदर्शनस्य तृतीयसंस्करणस्य सज्जतां निरीक्षितुं उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अद्य मध्यान्हे १.४५ वादने ग्रेटर-नॊएडायाम् आगतः। मुख्यमन्त्रिणा वरिष्ठ-अधिकाऱिभिः सह समीक्षासभा कृता। अस्मिन् वर्षे रूसदेशः सन्धिः-राष्ट्ररूपेण अस्ति। अस्य व्यापारप्रदर्शनस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना करकमलैः कर्तुं प्रस्तावितम्।

मुख्यमन्त्री योगी आदित्यनाथः हेलिकॊप्टरयानेन गौतमबुद्धनगरस्य एक्स्पो-मार्ट्-स्थले निर्मिते हेली-पैड्-उपरि अवतीर्णः। तत्र हेलीपैड उपरि अनेकमन्त्रिणः अधिकारिणश्च स्वागतं कृतवन्तः। मुख्यमन्त्रिणः अस्यां समीक्षासभायां उत्तरप्रदेशस्य अनेकमन्त्री, सर्वे विभागानां प्रमुख-सचिवाः, जनपद-मण्डलयोः प्रशासनिक-अधिकाऱिणः, विकास-प्राधिकरणस्य अन्य-विभागानां च अधिकारी उपस्थिताः। अस्मिन् सम्मेलने तृतीयं व्यापार-प्रदर्शनं अन्तिमरूपेण सिद्धं कर्तुं प्रयत्नः जातः। अस्मिन् वर्षे २,५०० प्रदर्शकाः भागं ग्रहीष्यन्ति। मुख्यमन्त्रिणा अस्य महत्त्वपूर्णस्य कार्यक्रमस्य सज्जता समीक्षिता। अस्मिन् समीक्षणे मुख्यमन्त्रिणा कतिपयविभागानां सज्जतायाम् असंतोषः अपि व्यक्तः। सः उक्तवान् यत् वाणिज्य-प्रदर्शनस्य सज्जता आयोजनं च कदापि न्यूनं न भविष्यति।

मुख्यमन्त्रीयोगी मथुराजनपदे आयोजिते कस्यचित् कार्यक्रमे भागग्रहणं कृत्वा गौतमबुद्धनगरम् आगतः। अत्र तस्य सुरक्षायै दृढव्यवस्था कृता। द्विसहस्राधिकाः आरक्षककर्मी तत्र नियोजिताः। समीक्षानन्तरं मुख्यमन्त्री गाज़ियाबादे आयोजिते अन्यस्मिन् कार्यक्रमेऽपि भागं ग्रहीष्यति।

उत्तरप्रदेश-सर्वकारस्य पक्षेण अन्तर्राष्ट्रीय-वाणिज्य-प्रदर्शनस्य तृतीयसंस्करणं सितम्बरमासस्य पञ्चविंशेदिने आरभ्यते। अस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्र-मोदिना कर्तुं शक्यते। उद्घाटनसमये अनेके राष्ट्राणां राजनायिकाः अपि आगमिष्यन्ति इति आशा। प्रधानमन्त्रिणः कार्यक्रमं दृष्ट्वा सुरक्षाविषये कठोराः उपायाः कृता:। अपर-आरक्षक-आयुक्तः राजीवनारायणमिश्रः उक्तवान् यत् प्रधानमन्त्रिणः मुख्यमन्त्रिणश्च कार्यक्रमस्य सुरक्षाभारः चतुर्सहस्राधिकानां आरक्षककर्मिणां हस्ते भविष्यति। तत्र अष्ट DCP, नव ADC, सप्तत्रिंशत् ACP, सप्ततिः निरीक्षकाः, एकशतपञ्चाशत् उपनिरीक्षकाः च नियुक्ताः। सः अपि उक्तवान् यत् PAC-बलस्य सप्तसंस्थाः तत्र तिष्ठन्ति, सहस्राधिकाः आरक्षककर्मिणः अन्यजनपदात् अपि आहूताः।

हिन्दुस्थान समाचार / अंशु गुप्ता