Enter your Email Address to subscribe to our newsletters
नवदेहली, 19 सितंबरमासः (हि.स.)।
निर्वाचनायोगेन अमान्यराजनैतिकपक्षेषु उपायः कृतः, यस्याः क्रियायाः परिणामरूपेण 474 पक्षाणां पञ्जीकरणं समापितम्। गतयोः द्वयोः मासयोः आयोगेन 808 इदृशेषु पक्षेषु उपायाः कृताः सन्ति। 9 अगस्त् दिनाङ्के आयोगेन 334 पक्षाणां मान्यता अपाकृता आसीत्।
राजनैतिकपक्षाः जनप्रतिनिधित्वनियमस्य अन्तर्गतं पञ्जीकृताः भवन्ति। अनेन पक्षाय सम्बद्धजनानां च कतिपय विशेषाधिकाराः लाभाश्च प्राप्यन्ते। किन्तु यदि षट्संवत्सरपर्यन्तं निर्वाचनं न सञ्चाल्यते तर्हि तेषां पक्षाणां पञ्जीकरणं निरस्तुं शक्यते। निर्वाचनायोगेन एतेषां पक्षानां परिज्ञानं कृत्वा तेषां विरुद्धं उपायाः स्वीकृताः।
निर्वाचनायोगेन 359 अन्येषां पक्षानां परिज्ञानमपि कृतम्। एते पक्षाः यद्यपि निर्वाचनं कृतवन्तः, तथापि गतत्रिवर्षाणां लेखापरीक्षणप्रतिवेदनानि न प्रस्तुतानि। तदन्यत् निर्वाचनव्ययप्रतिवेदनमपि न प्रस्तुतम्। आयोगेन एतेषां 28 राज्येषु स्थितानां पक्षानां प्रति मुख्यनिर्वाचनाधिकारेण (CEO) माध्यमेन कारणपत्रं प्रेषितम्।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता