रांच्यां त्रिदिवसीय डिफेंस एक्सपो इत्यस्य जातः शुभारंभः
रांची, 19 सितंबरमासः (हि.स.)।झारखण्डराजधानी राँचीनगरस्य खेलग्रामस्थिते टाना-भगत् अन्तःक्रीडामन्दिरे शुक्रवासरे त्रिदिनात्मकः ईस्ट्-टेक्-समारोहः 2025 (रक्षा-प्रदर्शनम्) भव्यरूपेण आरब्धः।राज्यपालः सन्तोषः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः, रक्षा-प्र
कार्यक्रम की तस्वीर


रांची, 19 सितंबरमासः (हि.स.)।झारखण्डराजधानी राँचीनगरस्य खेलग्रामस्थिते टाना-भगत् अन्तःक्रीडामन्दिरे शुक्रवासरे त्रिदिनात्मकः ईस्ट्-टेक्-समारोहः 2025 (रक्षा-प्रदर्शनम्) भव्यरूपेण आरब्धः।राज्यपालः सन्तोषः गंगवारः, मुख्यमन्त्री हेमन्तः सोरेनः, रक्षा-प्रधानसेनाध्याक्षः (सीडीएस्) जनरल् अनिल् चौहानः, केन्द्रीयः रक्षा-राज्यमन्त्री संजयः सेठः, मुख्यसचिवा अलका तिवारी इत्यादयः अनेकाः विशिष्टाः अतिथयः दीपप्रज्वलनं कृत्वा उद्घाटनं कृतवन्तः।

राज्यपालः सन्तोषकुमारः गंगवारः स्वसन्देशे उक्तवान् यत् ईस्ट्-टेक्-समारोहः 2025 (रक्षा-प्रदर्शनम्) ऐतिहासिकः चरणः अस्ति। सः अस्य आयोजनस्य कृते केन्द्रीय-रक्षा-राज्यमन्त्री संजयः सेठः इत्यस्मै अभिनन्दनं दत्तवान्।

मुख्यमन्त्री हेमन्तः सोरेनः भाषणे अवदत् यद् झारखण्डराज्यं यूरेनियमेन सम्पन्नम् अस्ति। राज्यं परमाणु-आयुधनिर्माणे महत्त्वपूर्णं योगदानं दातुं शक्नोति।झारखण्ड-सर्वकारः रक्षा-क्षेत्रं आत्मनिर्भरं कर्तुं केन्द्र-सरकारेण सह सम्पूर्णं सहयोगं दातुं प्रतिबद्धा अस्ति।”सीडीएस् जनरल् अनिल् चौहानः उक्तवान् यत्परिवर्तमानेषु वैश्विकेषु परिस्थितिषु दृष्टिः स्थाप्य, अन्तरिक्ष-युद्धे, साइबर्-युद्धे च उपयुज्यमानानां उपकरणानाम् विकासाय नीतिगताः पहलाः क्रियन्ते।आयुधानां रणनीतिकः चयनः अतीव आवश्यकः अस्ति। आधुनिकयुद्धस्य आवश्यकतानुसारं अनुसन्धानं विकासश्च पुनः परीक्षितव्यौ स्तः।रक्षा-विनिर्माणाधारः विस्तारितव्यः। कृत्रिमबुद्धिमत्ता अन्याश्च अत्याधुनिकतन्त्रज्ञानाः अन्वेष्टव्याः।”एतद्रक्षा-प्रदर्शनं 19–21 सितम्बर-तिथिषु भविष्यति। अस्मिन् आयोजनमध्ये भारतीयसेनात्रयस्य (स्थलसेना, नौसेना, वायुसेना) सामर्थ्यं तथा अत्याधुनिकतन्त्रज्ञानम् प्रदर्शितम्।प्रथमवारं राँच्यां आयोजितः एषः एक्स्पो न केवलं राज्याय, अपि तु सम्पूर्ण-पूर्वभारतानाम् रक्षा-क्षेत्रे नवोन्मेष-औद्योगिकानाम् अवसराणां द्वारम् उद्घाटयिष्यति।एषः कार्यक्रमः “मेक्-इन-इण्डिया” तथा “आत्मनिर्भर-भारत” अभियानयोः सुदृढीकरणे एकः महत्त्वपूर्णं चरणम् इति मन्यते।

---------------

हिन्दुस्थान समाचार